________________
चतुर्थोऽध्यायः। ज्ञापनार्थतां सूत्रस्याभिप्रेत्य व्याख्यात्रन्तरकृतव्याख्यामनुसरतैवमवादि केदारेणेत्यदोषः । सर्वेषु दण्डकेषु पादान्ते यतिः। श्रुतिसौकर्येण अन्येऽपि दण्डका अन्यैरुक्ताः। यथानयुगलगुरुयुगावेवं प्रकाराः कवीच्छानुरोधात्तदा यत्र
वक्ष्यन्त एषोऽपरो दण्डकः पण्डितैरीरितः सिंहविक्रान्तनामा ॥ यत्र रेफान्कविः स्वेच्छया पाठसौभाग्यसापेक्षया
रोपयत्येष धीरः स्मृतो दण्डको मत्तमातङ्गलीलाकरः ॥ लघुर्गुरुः क्रमेण यत्र बध्यते सुधीभिरिच्छया
स दण्डकस्त्वनङ्गशेखरः स्मृतः॥ स्वेच्छया रजौ क्रमेण संनिवेशयत्युदारधीः
कविः स दण्डकः स्मृतो जगत्यशोकमरी ॥ सगणः सकलः खलु यत्र भवेत्तमिह
प्रवदन्ति बुधाः कुसुमस्तबकम् ॥ यकारैः कवीच्छानुरोधान्निबद्ध प्रसिद्धो
विशुद्धोऽपरो दण्डकः सिंहविक्रान्तनामा ॥ एवं मेधमालाकुसुमस्तरणोत्तरकामबाणादयो दण्डकाः षड्विंशत्यक्षराधिकाक्षरपादाः कविप्रवन्धानुसारेण शेयाः। षड्विंशत्यक्षरन्यूनतायां तु पूर्वोक्तासु जातिष्वेवान्तर्भावो यथायोगं भवति ॥ ११४ ॥ इति श्रीमद्भट्टरामेश्वरमरिमूनुनारायणभट्टविरचितायां
वृत्तरत्नाकरटीकायां समवृत्ताध्यायस्तृतीयः॥
-
--
-
चतुर्थोऽध्यायः।
एवं समवृत्तान्यभिधायाऽधुना अर्धसमान्याहविषमे यदि सौ सलगादले
भौ युजि भाद् गुरुकावुपचित्रम् ॥ १॥(१) (१) उदाहरणान्तरं यथा छन्दोमअर्याम्
स. स. स. ल.गु. -གདོ ད --དལི་ཡིས་ मुरव--रवपु-स्तनुतां मु-दं ।। ।।, ।।, 1, ।.