________________
तृतीयोऽध्यायः।
पूर्वोक्तैव यतिः ॥ ७ ॥
उक्ता वसन्ततिलका तभजा जगौ गः ॥ १० ॥(१) , त-भ-ज-जा गणा गुरू चेति वसन्ततिलका ॥ ७ ॥ सिंहोनतेयमुदिता मुनिकाश्यपेन ॥ ८० ॥(२) - काश्यपेन मुनिनेयं वसन्ततिलकैव सिंहोन्नतोक्तेति संज्ञान्तरोक्तिः॥०॥
उद्धर्षिणीयमुदिता मुनिसैतवेन ॥ ८१॥(३) सैतवेन त्वाचार्येणेयमुद्धर्षिणीत्युक्ता ॥ ८१ ॥
इन्दुवदना भजसनैः सगुरुयुग्मैः॥ ८२ ॥(४) (१) उदाहरणान्तरं यथा छन्दोवृत्तौ-.
त. भ. ज. ज. गु.गु.. उद्धर्षि–णी जन-इशां स्त-नभार-गु-/ 55, 5 ।। ।5।।5।, s,s. नीलोत्पलद्युतिमलिम्लुचलोचना च ॥ सिंहोन्नतत्रिकतटी कुटिलाऽलकान्ता . कान्ता वसन्ततिलका नृपवल्लभाऽसौ ॥
(शक्वरीभेदेषु २६३३ तमोऽयं भेदः।) (२) उदाहरणान्तरं निरुक्तमेव । तथाऽपि रसिकजममनोविनोदनाय पद्यान्तरं लिख्यते । यथा ध्वन्यालोकलोचने श्रीमदभिनवगुप्तपादाचार्यगुरोः कविसहृदयचक्रवत्तिनो भट्टेन्दुराजस्य
इन्दीवरद्युति यदा बिभृयां न लक्ष्म ___ स्युविस्मयैकसुहृदोऽस्य यदा विलासाः ॥ स्यान्नाम पुण्यपरिणामवशात्तदानीं
कीरीकपोलतलकोमलकान्तिरिन्दुः ॥ (३) एतस्याऽपिपूर्वोक्तमेव । तथाऽपीदं श्रुतिगोचरीक्रियताम् । यथा न्यायवाचस्पतिरुद्रकवेः--
कस्तूरिकाहरिण ! मुञ्च वनोपकण्ठं
मा सौरभेण ककुभः सुरभीकुरुष्व ॥ प्रास्तां यशोननु किरातशराऽभिपाता- .
त्राताऽपि हन्त भविता भवतो दुरापः । (४) उदाहरणान्तरं यथा साहित्याचार्यखिस्तेनारायणशास्त्रिणाम्
भ. ज. स. न. गु.गु. इन्दुव-दनाक-मलको-मलश-री-रा 5।। ।। ।। ।।।, s, s.