________________
नारायणभट्टीसाहतवृत्तरत्नाकरत्वियमेव कान्तोत्पीडा ॥ ६३ ॥ . ..... ....
इह नवमालिका नजभयैः स्यात् ॥ ६४ ॥(१) इह छन्दःशास्त्रेऽष्टाभिश्चतुर्भिश्च यतिरित्याहुवृद्धाः ॥ ६४ ॥
स्वरशरविरतिर्ननौ रौ प्रभा ॥ ६५ ॥२) स्वरैः षड्जादिभिः सप्तभिः शरैः पञ्चभिश्च यतियंत्र ॥ ६५ ॥ - भवति नजावथ मालती जरौ ॥६६॥ - पञ्चभिः सप्तभिश्च यतिः ॥ ६६ ॥
जभौ जरौ वदति पञ्चचामरम् ॥ ६७ ॥३)
(१) उदाहरणान्तरं यथा छन्दोवृत्तौ--
न. ज. भ. य. -- - - -- -- - धवल-यशोंशु-केन प-रिवीता ।।। ।। 5।।, ।55, सकलजनाऽनुरागघुसणाक्ता ॥ दृढगुणबद्धकोतिकुसुमौधै
स्तव नवमालिनीव नृपलक्ष्मीः॥ (जगतीभेदेषु ६४४ तमोऽयं भेदः।) पिङ्गलसूत्रमतेनेदमुदाहरणम् । एतच्छन्दोविषये वृतरत्नाकरपिङ्गलसूत्रयोर्नाम्नैव भेदः । अन्यत् सर्व समानमेवेति तदेवोदाहरणं न्यासि मया ।
(२) एतदुदाहरणान्तरं प्रमुदितवदनोदाहरणमेव । एकस्यैव च्छन्दसो नामद्वयं 'प्रमुदितवदना' 'प्रभा' इति च । नाऽत उदाहरणान्तरं न्यासि मया।
(३) उदाहरणान्तरं यथा छन्दोमअर्याम्
- -- -- - - इहक-लयाऽच्यु-त केलि-कानन ।।। । । । ।।, S।s, मधुरससौरभसारलोलुपः ॥ .. कुसुमकृतस्मितचारुविभ्रमामलिरपि चुम्बति मालती मुहुः ॥
(जगतीभेदेषु १३६२ तमो भेदोऽयम् । ) .. (३) इदं छन्दो न दृष्टं पुस्तकान्तरेऽतो नोदाहरणान्तरं न्यासि मया ।