________________
तृतीयोऽध्यायः ।
अन्यास्वपि जगत्यादिजातिष्वित्थं सामान्यसङ्ख्याऽक्षरत्व समानयतिकत्वादिप्रकारेण मिश्रितास्विदमेवोपजातिनाम वृद्धाः स्मरन्ति । ग्रन्थान्तरेभ्यो ज्ञात्वा वदन्तीत्यर्थः । इत्थमित्यनेन विषमवर्णसङ्ख्यानां विषमयतिकानां च जातीनां त्र्यादीनां च मिश्रणे उपजातिर्नाम नास्तीति सूचि - तम् । स्मरन्तीत्यनेन च कविप्रयोगे दर्शनानुरोधः सूचितः । तत्रेन्द्रवंशावंशस्थाभ्यामुदाहरणम् -
इत्थं रथाश्वेभनिषादिनां प्रगे
गणो नृपाणामथ तोरणाद्वहिः ॥ प्रस्थानकालक्षमवेषकल्पना
कृतक्षणक्षेपमुदक्षताच्युतम् ॥ (शि०१२-१)
एवमन्यत्रापि प्रयोगवशादुदाहरणं ज्ञेयम् । सर्वासामुपजातीनामुतया दिशा चतुर्दश भेदा भवन्ति । विषमार्धसमरूपत्वेऽप्युपजातीनां समवृत्तेषूपन्यासः समवृत्तघटिततया प्रासङ्गिकः ॥ ३१ ॥ (१) नजजलगैर्गदिता सुमुखी ॥ ३२ ॥(२)
पिङ्गलादिमुनिभिरन्यैरपि सकलैश्छन्दोविद्भिर्विरोधः । यतः सर्वैरपि एकैकाक्षरवर्धन क्रमेण जायमानाः षड्विंशतिसङ्ख्याका एव जातय उररीकताः । किं च विषमाक्षरवृत्तद्वयमेलनेन समुत्पन्नेषु वृत्तान्तरेषु उपजातित्वस्वीकारे पिङ्गलाद्याचार्याणां वृत्तानामर्धसमविषमत्वादिकथनं वृथैव स्यात्। श्रतो भवदुक्तमसङ्गतमेवेत्यलं ज्ञानलवदुर्विदग्धर्भवद्भिः साकं विवा देन । अत्रत्यं तत्त्वं तु मया प्रणेष्यमाणग्रन्थान्तरे विवेचयिष्यत इति मयि विश्वस्य साम्प्रतं सन्तोष्टव्यम् । इन्द्रवंशावंशस्थसम्मेलनसम्भूतानामुप-. जतीनामुदाहरणान्यनुपदमेव प्रदर्शयिष्यन्ते ।
(१) इन्द्रवंशावंशस्थ सम्मेलनसम्भूतानामुपजातीनामुदाहरणानि वंशस्थोदाहरणप्रदर्शनाऽवसरे प्रदर्शयिष्यन्ते ।
(२) उदाहरणान्तरं यथा छन्दोमञ्जर्याम्
न.
ज.
ज.
१०
ल. ग. ht
तरणि— सुतात- टकुञ्ज -गु-हे ।।।, । ऽ 1, 151, 1, S.. वदनविधुस्मितदीधितिभिः ॥ तिमिरमुदस्य मुखं सुमखी हरिमवलोक्य चुचुम्ब चिरम् ॥ (त्रिष्टुम्भेदेषु ८८० तमो भेदोऽयम् ।)