________________
२३४
यथा
यदवोचदवेक्ष्य सुन्दरी परितः स्नेहमयेन चक्षुषा |
अपि कंसहरस्य दुर्वचं वचनं तद्विदधीत विस्मयम् || ३२१ ।।
काव्यमाला |
उवणिका यथा - वि० ॥, ॥s, I, s, I, s, स० ॥s, s॥, sil, I, S, यथा वा - 'अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः' इत्यादि रघुवंशे । सुन्दरी निवृत्ता ॥
एवमुक्तपरिपाव्यार्धसमवृत्तान्येकाक्षरा दिषड्विंशत्यक्षरपर्यन्तप्रस्तारेषु द्वाभ्यां वृत्ताभ्यां स्वबुद्ध्या नामानि धृत्वा सुधीभिरुह्यानि । ग्रन्थविस्तर भीत्या प्रसिद्धान्येव कानिचिद्वृत्तायत्रोदाहृतानीति शिवम् । इत्यर्धसमवृत्तानि ॥
अथ विषमवृत्तानि—
तत्र विषममू
इति लक्षणलक्षितम् ।
'यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छन्दः शास्त्रविशारदाः ॥'
तत्र प्रथममुद्गताछन्द:
प्रथमे सजौ यदि सलौ च नसजगुरुकाण्यनन्तरे ।
यद्यथ च भनभगाः स्युरथो सजसा जगौ भवतीयमुद्गता ॥ ३२२ ॥
भोः शिष्याः, यत्र प्रथमे चरणे सजौ सगणजगणावथ च सलौ सगणलघू भवतः, अनन्तरे द्वितीये नगणसगणजगणगुरुकाणि भवन्ति । अथ तृतीये चरणे यदि भगणनगणभगणगुरवः स्युः । अथो चतुर्थे सजसा सगणजगणसगणाः । अथ च जगौ जगणगुरू भवतस्तदोद्गतानामकं छन्दः ॥
यथा
विलास गोपरमणीषु तरणितनया प्रभोगता ।
कृष्णनयनच कोरयुगे दधती सुधांशुकिरणोर्मिविभ्रमम् ॥ ३२३ ॥
उणिका यथा - १॥s, II, II, २ ॥ ॥S, ISI, S, ३ SII, III, SI, S, ४ IIS, ISI, IIS, ISI, S,
अथ च -
प्रथमे सजौ यदि सलौ च नसजगुरुकाण्यनन्तरे ।
यद्यथ भनजलगाः स्युरथो सजसा जगौ प्रभवतीयमुद्गता ॥ ३२४||
यत्र प्रथमे चरणे सगणजगणसगणलघवः द्वितीये नसजगुरुकाणि । अथ तृतीये चरणे यदि भनजलगा भगणनगणजगणलघुगुरवः स्युः । चतुर्थे सजसाः सगणजगणसगणाः । अथ