________________
१८६
. काव्यमाला ।
अथ सप्तदशाक्षरप्रस्तारे पृथ्वीछन्दःपओहर मुह द्विआ तह अ हत्थ एको दिआ
पुणो वि तह संठिआ तह अ गन्ध सज्जोकिआ । पलन्ति वलआजुआ विमलसद्द हारा उणो
चउकलअ वीसआ पुहविणाम छन्दो मुणो ॥२१७ ॥ [पयोधरो मुखे स्थितस्ततश्च हस्त एको दत्तः
पुनरपि तथा संस्थितौ तथा च गन्धः सज्जीकृतः । पतति वलययुगं विमलशब्दो हारः पुनः
चतस्रः कलाश्च विंशतिः पृथिवीनाम छन्दो ज्ञेयम् ॥] भोः शिष्याः, यत्र पयोधरो जगणो मुखे स्थितः, तत एकः सगणः, पुनरपि तथैव जगणसगणावेव तयोरग्रे स्थितावित्यर्थः । तथा च गन्धो लघुः सजीकृतः, ततो गुरुद्वयम् , ततो विमलोऽतिविशदः शब्दोऽतिलघुर्भवति, ततो हारो गुरुः । पदे च चतस्रः कलाः । अथ च विंशतिः कलाः संभूय चतुर्विंशतिः । यत्र वसुभिर्ग्रहश्च जातविश्राम पृथ्वीनामकं छन्दो भवतीति मुणउ ज्ञेयमित्यर्थः । तथा च-जसद्वययगणलघुगुरुभिर. टरन्ध्रकृतयतिः पृथिवीति फलितोऽर्थः। तदुक्तं छन्दोमअर्याम्-'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-‘पयोधरयुता स्फुरत्कनकयुग्मताटङ्किनी सुवर्णरुचिकङ्कणा ललितभावसन्नूपुरा । सुगन्धरुचिरा सच्छ्रवणरूप. वस्कुण्डला भुजंगपतिवर्णिता हरति हन्त पृथ्वी मनः ॥' कर्णपर्यायत्वाच्छ्वणस्य गुरुद्वयात्मको गणो गृह्यते ॥ पृथ्वीमुदाहरति-जहा (यथा)झणज्झणिअभूसणं रणरणन्तकाचीगुणं
सहासमुहपङ्कअं अगुरुधूमधूपुज्जलम् । जलन्तमणिदीविरं मअणकेलिलीलासरं
णिसासुहमणोहरं जुवइमन्दिरं रेहइ ॥ २१८ ।। [झणिज्झणितभूषणं रणरणत्काञ्चीगुणं
सहासमुखपङ्कजमगुरुधूमधूपोज्ज्वलम् । ज्वलन्मणिदीपिकं मदनकेलिलीलासरो
निशासुखमनोहरं युवतिमन्दिरं राजते ॥] १. 'कोल' रवि०.