________________
१९८
काव्यमाला ।
मिति ॥ पदान्ते च गुरुयुगं क्रियते तच्छन्दोनाम तारकमिति भण्यते । सगणचतुष्टयेनान्तगुरुणा तारकमिति फलितोऽर्थः ॥ तथा च भूषणे – 'यदि तोटकवृत्तपदे गुरुरेको भवतीह तदा किल तारकवृत्तम् । फणिनायकपिङ्गलवर्णितमेतद्वरपण्डितमण्डलिकाहृतचित्तम् ॥'
तारकमुदाहरति-- जहा (यथा ) - णवमञ्जरि लिज्जिभ चूअहगाच्छे परिफुल्लिभ के सुणआवण आच्छे |
जइ एत्थ दिगन्तर जाइहि कन्ता
कि मम्महणच्छि कि णच्छि वसन्ता ॥ १६२ ॥ [ नवमञ्जरी गृहीता चूतकगुच्छेन
यदि
परिपुष्पितं नवकिंशुकवनमच्छम् । "दिगन्तरं यास्यति कान्तः किं मन्मथो नास्ति किं नास्ति वसन्तः ॥ ]
हे सखि, चूतवृक्षेण नवमञ्जरी गृहीता । किं च (प्राकृते पूर्वनिपातानियमात् ) नव किंशुकवनमतिसुन्दरं यथा भवति तथा परिपुष्पितम् । यदि तस्मिन्समये कान्तो दिगन्तरं यास्यति तदा किं मन्मथो नास्ति किं वा वसन्त एव नास्ति इति सखीं प्रति नायिकावचनम् ॥ उवणिका यथा - ॥, S, ॥, S, ॥, S, ॥, S, S, १३४४ ५२ ॥ यथा वा[णीभूषणे ] – 'अतिभारतरं हृदि चन्दनपङ्कं मनुते सरसीपवनं विषशङ्कम् । तव दुस्तर - तारवियोगपयोधेर्नहि पारमसौ भविता परमाधेः ॥ ' तारको निवृत्तः ॥
अथ कन्दच्छन्द:
धजा तूर हा पुणो तूर हारेण
गुरू सह किज्जे अ एक्का तआरेण ।
कसा कला कन्दु जम्पिज्ज णाएण
असी होइ चउअग्गला सव्वपाएण ।। १६३ ।। [ ध्वजस्तूर्य हारः पुनस्तूयै हार: गुरुः शब्दः क्रियते चैकस्तकारः ।
१. 'किजिअ ( कृता) ' रवि०. २. 'केसुलआवण (किंशुकवनम् )' रवि ० . ३ . ' वम्मह' रवि ० . ४. 'गुरू काहला कण्ण एक्को लआरेण (गुरुः, अनन्तरं काहलो लघुः, ततः कर्णो द्विगुरुर्गणः, ततो लकारो लघुरेको यत्रास्ति) ' रवि ०.