________________
काव्यमाला।
यथाप्रह्वामरमौलौ रत्नोपलयुक्ते जातप्रतिबिम्बा शोणा मणिमाला । गोविन्दपदाजे राजी नखराणामास्ते मम चित्ते ध्वान्तं शमयन्ती ॥ उद्दवणिका यथा-ssi, Iss, ssh, Iss, १२४४ = ४८ ॥ मणिमाला निवृत्ता ॥ अथ जलधरमालाछन्दः
म्भौ स्गौ गौ चेज्जलधरमालाब्ध्यङ्गैः ॥१५८ ॥ यत्र प्रथमं म्भौ मगणभगणौ, अथ च स्गौ सगणगुरू भवतः, ततश्च गौ गुरुद्वयं चेद्भवति । किं च-अब्धयश्चत्वारः, अङ्गान्यष्टौ, अष्टाङ्गयोगाभिप्रायेण, तैः कृतविरतिः, तदा जलधरमाला तन्नामकं वृत्तमित्यर्थः ॥
यथा.' या भक्तानां कलिदुरितोत्तप्तानां तापोच्छित्यै जलधरमाला नव्या ।
भव्याकारा दिनकरपुत्रीकूले केलीलोला हरितनुरव्यात्सा वः ॥ उद्ववणिका यथा-sss, su, us, s, ss, १२४४ = ४८ ॥ अत्रापि प्रस्तारगत्या द्वादशाक्षरप्रस्तारस्य षण्णवत्यधिकं सहस्रचतुष्टयं भेदा भवन्ति तेषु कियन्तः प्रदशिताः । शेषभेदाः सुधीभिः प्रस्तार्य सूचयितव्या इत्यलं पल्लवेनेति ॥ अथ त्रयोदशाक्षरप्रस्तारै मायानामकं छन्दो लक्ष्यते--
कण्णा दुण्णा चामर सल्लाजुअला जं
वीहा दीहा गन्धअजुग्गा पअलातम् । अन्ते कन्ता चामर हारा सुहकाआ
वाएसा मत्ता गुणजुत्ता भणु माआ ॥ १५९ ॥ [कर्णो द्विगुणश्चामरः शल्ययुगलं पत्र
द्वौ दीगन्धकयुग्मं प्रकटितम् । अन्ते कान्तश्चामरो हारः शुभकाया
द्वाविंशतिर्मात्रा गुणयुक्ता भण मायाम् ॥] हे मुग्धे, जं यत्र प्रथमं कण्णा दुण्णा द्वौ कर्णौ गुरुद्वयात्मको गणौ भवतः, ततश्चामरो गुरुरेव, तदनन्तरं शल्ययुगं लघुद्वयमित्यर्थः । ततोऽपि वीहा दीहा गुरुद्वयम्, ततोऽपि गन्धयुगं लघुद्वयं प्रकटितम् । अन्ते एतदन्ते चामरो गुरुः, हारोऽपि गुरुरेव भवति । शिष्यबोधनार्थ पदपूरणार्थ वा चरणे मात्रानियममाह-शुभकाया शुद्धशरीरा द्वाविंशतिर्मात्रा गुणयुक्ता यत्र तं तां मायां मायानामकं वृत्तं भण पठेत्यर्थः ॥ वाणीभूषणे तु-'कृत्वा कर्णौ कुण्डलयुक्तौ कुरु रत्नं धृत्वा पादं नूपुरयुक्तं कुरु हारम् । मायावृत्तं