________________
पञ्चमरले तृतीयमरीचिः ।
समानोदर्यसादसमर्थ्य सहजाः समाः । सगोत्रबान्धव ज्ञातिबन्धुस्वस्वजनाः समाः ॥ 'चन्द्रसगोत्रं, चन्द्रसोदरं मुखमित्यादि कर्तव्यम् ।
प्रकारान्तरमाह
भृतकाद्यैश्च भृत्याचे न्यक्कारायैः क्रियापदैः ॥ सन्देहतसद्वाक्याद्यैः सादृश्यं प्रतिपद्यते ॥ २ ॥ भृतकाद्यैरिति ।
भृतको भृतिभुक् कर्मकरो वैतानिक सः । 'मुखस्य मृतकश्चन्द्र' इत्यादि कर्तव्यम् (१) । भृत्यायैरित्यादि । भृत्यदासेयदा सेरदासमोप्यकचैटकाः ।
नियोज्य किंकर मेण्यसुजिष्यपरिचारकाः ॥ 'मुखस्यदासः शशी'त्यादि कर्तव्यम् । न्यक्कारार्थैरिति । न्यक्करोति तिरस्कुर्वन् प्रतिक्षिपति भर्त्सति । आक्रोशत्यवजानाति कदर्थयति निन्दति ॥ विडम्बयति संरुन्धे हसतीत्यस्यति । 'स्वन्मुखं चन्द्रं न्यक्करोतीति विधेयम् (२) ।
तृणीकृतमधिक्षितं निरस्तं च लघूकृतम् । अनादृतमवज्ञातमम्भोजं त्वन्मुखेन्दुना ॥ सन्देहेति । यथा - 'किमिन्दुः किं पद्म' मित्यादि । तत्तद्वा
क्यैरिति ।
तस्य पुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति । तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ।। तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहतें ।
( १ ) इत्यपि बोद्धव्यम् - इति कपु० पाठः । ( २ ) ध्येयम् - इति कपुस्तके |
८