SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २६ अलङ्कारशेखरे - यथा हुं हुं हुं न न ममेति युवत्या जल्पितं जयति मानधनायाः । इत्यादौ । नापि लक्षणादाववाचकम् ॥ ३ ॥ लक्षणादेरशक्य(१) वृत्तित्वादिति हृदयम् । इदानीं वाक्येषु यथासम्भवमाह - प्रतीत्यबाधान्न न्यूनम् यथा तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ 'यत्रान्यत्क्रियापदं नास्ति, तत्र अस्तिर्भवतिर्वा प्रथम पुरुषे प्रयुज्यते' इति न्यायेन यत्र तद्वयेन नोपपत्तिस्तत्र तदूषणमित्यर्थः । एवं प्रकरणादिना पदान्तरस्य लाभे द्रष्टव्यम् । अत उक्तम्- प्रतीत्यवाधादिति । पादभेदे विसन्धि न ॥ यथा यद्यपि नदति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः । तदपि न कुप्यति सिंहो अमदृशपुरुषेषु कः कोपः (२) ॥ इह यद्यपि यदुल्लिखितं सन्धिविरहो न दोष इति, तथाप्य( १ ) रशक्ये एव वृत्तित्वात् - इति क, खपु० पाठः । ( २ ) इतः परं - “इन्द्रस्याशुचिशूकरस्य च सुखे दुःखे च नास्त्यन्तरं स्वेच्छाकल्पतया तयोः खलु सुधा विष्ठा च काम्याशनम् । रम्भा चाशुचिशूकरी च परमप्रेमास्पदं मृत्युतः संत्रासो असमः स्वकर्मगतिभिश्चान्योन्यभावः समः ॥ इति शान्तोदाहरणम्” क पुस्तके पाठोऽयमधिको दृश्यते । स च विसन्धेः पादभेदत्वाभावादसङ्गत इत्युपेक्ष्यः ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy