________________
१२
अलङ्कारशेखरे
तरिक यद्यञ्जनापि पदमात्रवृत्तिरेव नेत्यत आह-- ध्यानार्थत्रयेऽपि च ॥ १ ॥
शक्यलक्ष्यव्यङ्गयात्मक इत्यर्थः । शक्यार्थस्य व्यञ्जकता
यथा--
अवलोकय निःस्पन्दो बिसिनीपत्रे बको भाति । निर्मलमरकतभाजनपरिस्थितो(१) विमलशङ्ख इव ॥ अत्र निःस्पन्दशब्दस्या(२)र्थन क्रियाविरहेण बकगतमाश्व. स्तत्वं व्यज्यते । लक्ष्यार्थस्य यथा-- मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं
समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसबन्धोद्धरं
बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ॥ अत्र विकासः पुष्पधर्मो मुखेऽनुपपन्न इति लक्षितेन प्रस. तत्वेन लोकोत्तररमणीयतात्मकातिशयो व्यज्यते । एवमग्रेऽपि । व्यङ्गयार्थस्य यथा 'अवलोकय' इत्यादावेव व्यङ्गयेनाश्वः स्तत्वेन देशस्य सङ्केतयोग्यत्वं व्यज्यते ।
त्रिविधस्यापीति । उत्तममध्यमाघमात्मकस्य । तत्र वाच्यनिरूपितव्यङ्गयप्रकर्षाधारस्वमुत्तमत्वम् । यथा 'निःशेषच्युतचन्दन'. मित्यादौ । अत्र हि वाच्यार्थापेक्षया व्यङ्गयार्थ एव झटिति चमत्कारविशेषमारोहति । वाच्यनिरूपितव्यङ्गयप्रकर्षाऽनाधारत्वं मध्यमत्वम् । यथा-- - ग्रामतरुणं तरुण्या नववजुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ अत्र वजुलकुछ दत्तसङ्केता तरुणी न गतेति व्यज्यते । (१) परिस्थिता विमलशवशुक्तिरिव-इति कपु० पाठः। (२) शब्दस्यानेकार्थक्रिया-इति गपु० पाठः।