________________
अष्टमरत्ने प्रथममरीचिः
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ बासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ॥४१॥ ... अमी च प्रत्येकं (१) भाव्यन्ते कचिच्छबलतापि ( २ ) । यथा 'काsकार्य शशलक्ष्मण' इत्यादी । अत्र काऽकार्यमिति वितर्कः 1 भूयोऽपि दृश्येत सेत्यौत्सुक्यम् । दोषाणामिति मतिः । कोपेऽपीति स्मृतिः । किं वक्ष्यन्तीति शङ्का । स्वप्नेऽपि सा. दुर्लभेति दैन्यम् | चेतः स्वाथ्यमुपैहीति धृतिः । कः खल्वित्यादि चिन्ता ।
इत्यलङ्कारशेखरे विश्रमरले रसमरीचिः ।
'परे र सदोषाऽभावानुकूलवर्णादयः काव्यशरीरे मनः' इत्युक्तम् । अतो रसदोषानिदानीपाह
स्वस्वशब्देरुपादानं भावस्य च रसस्य च ॥ कष्टप्रकल्पनीयत्वमनुभावविभावयोः ॥ १ ॥ प्रक्रान्त (३) रसवैरित्वं तेषां व्यक्तिविपर्ययः ॥ अनौचिती च सर्वत्र रखें दोषाः स्युरीदृशाः॥२॥ सामान्यतो विशेषतो वा स्वस्ववाचक शब्दमतिपादि (४)तानां निर्वेदादीनां रत्यादीनां वा रसाननुगुणत्वमिति सकलानुभवसिद्धम् । तत्र व्यभिचारिणः स्वशब्दोपादानं यथा-सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
•
सत्रास भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेर्ष्या जन्तुसुतावलोकन विधौ दीना कपालोदरे पार्वखा नवसङ्गमप्रणयिनी दृष्टिः शिवायाऽस्तु वः ॥
(१) प्रत्येकमेव श्लाध्यन्ते इति ख, घपु० पाठः । (२) सर्वभावतापि - इति कपुर पाठ
(३) प्रकृते इति कपुर पाठः पादकानां - - इति कपुस्तके |