SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अष्टमरत्ने प्रथममरीचिः । - अत्र करुणबीभत्सयोमैत्री विशेषाभिप्रायेणेति स्मर्तव्यम् । स्थायी भावो रस इत्युक्तमत आह-- रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ॥ जगुप्सा विस्मयो भावा निर्वेदः स्थायिनो नव ॥३२॥ ___ स्थापिनो भावा नवेत्यर्थः । ननु निर्वेदस्य कथं शान्तरस. स्थायिता, व्यभिचारित्वादिति चेन। अधिकरणभेदेनोभयाविरोधादित्यन्यत्र विस्तरः । स्थायिलक्षणं तु - विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः॥ स्वात्मभावं नयत्यन्यान् स्थायी भावः स उच्यते ॥३३॥ __यथा लवणाकरः(१) ।विरुदैर्जुगुप्सादिभिरविरुदै रत्या. दिभिर्यो न विच्छिद्यते । विशेषलक्षणं तु-मनोऽनुकूलविषय. खात्मकसंवेदनं रतिः । अङ्गक्रीडादिभिश्वेतोविकारो हासः । इष्टनाशादिजनितं चित्तवैक्लव्यं शोकः । प्रतिकूलेषु तैक्षण्यप्ररोहः क्रोधः । कार्यारम्भे स्थिरसंरम्भ उत्साहः । व्याघ्रादिदर्शन. जनितं चित्तवैक्लव्य(२) भयम् । दोषदर्शनात्पदार्थे गर्हणं जुगुप्सा। लोकसीमाऽतिक्रान्तपदार्थविषयश्चित्तविकारो विस्मयः । तस्यज्ञा. नादादिभिः स्वावमाननं निर्वेदः । एते च सर्वभावेषु मुख्या: । यदाह.. यथा नराणां नृपतिः शिष्याणां च यथा गुरुः । .. तथा सर्वेषु भावेषु स्थायी भावः स्मृतो महान् ॥ विभावो द्विविधः, उद्दीपन आलम्बनश्च । तत्र कोकिलवसन्तादिरुद्दीपनः नायिकादिरालम्बनः । योगा(३) । अस्माकं (१) यथा लवणाकरः-इति खपुस्तके नास्ति । (२) मनःक्लव्यं-इति कपु० पाठः । (३) योगादपि-इति कपु० पाठः। .
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy