SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ यथा अष्टमरने प्रथममशीथिः । यथा क्षुद्राः ! संत्रासमेते विजहित हरयो ! भिन्नशक्रेमकुम्भा ! युष्मद्गात्रेषु लज्जां दधति परममी सायका निष्पतन्तः । सौमित्रे ! तिष्ठः पात्रं त्वमसि नहिं रूपां नन्वहं मेघनादः किंचिद्भ्रूभङ्गलीला नियमितजलधिं राममन्वेषयामि ॥ भयानको भवेद्भीतिप्रकृतिघरवस्तुनः ॥ स च प्रायेण वनितानीयबालेषु दृश्यते ॥ २३ ॥ दिगालोकाssस्य शोषङ्गिकम्पगद्गद संभ्रमाः ॥ स्तम्भवैवर्ण्यमोहाश्च वर्ण्यन्ते विबुधैरिह ॥ २४ ॥ ८१ यथा ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद् भूगसा पूर्वकायम् । शoपैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥ बीभत्सः स्याज्जुगुप्सातः सौहृद्यश्रवणेक्षणात् ॥ निष्ठीवनास्यभङ्गादि स्यादत्रं महतां नच ॥ २५ ॥ उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा - "न्यंसस्फिक् पृष्ठपिण्डाद्यवयव सुलभान्युग्रगन्धीनि जग्ध्वा । आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्काः दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ विस्मयात्माऽद्भुतो ज्ञेयः स चाऽसंभाव्य वस्तुनः ॥ दर्शनाच्छ्रवणाद्वापि प्राणिनामुपजायते ॥ २६ ॥ ११
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy