SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ षष्ठरते तृतीयमरीचिका धूसराणि रजो लूता करभो गृहगोधिका। . कपोतमूषको दुर्गा काककण्ठखरादयः ॥ इदमुपलक्षणम् - हरिताः सूर्यतुरमा बुधो मरकतादयः। इत्यपि बोद्धव्यम् । द्वैरूप्ये चाऽप्रसिद्धौ च नियमोऽयमुदाहृतः । अन्यद्वस्तु यथा यत्स्यात् तत्तथैवोपवर्ण्यते । • इत्यलङ्कारशेखरे कविसम्प्रदायरत्ने शुक्लादिनियममरीचिः। १७इदानीं नियमानतरमाहएकस्मादासहस्रं च यद्यवस्तु यथा भवेत् ॥ .. तत्तत् कविप्रयोगेण ज्ञातव्यं काव्यमिच्छता ॥१॥ अत्र ज्ञातव्यम् एक ऐन्द्रः करी चाश्वो गजास्यरदशुक्रहक् ।। द्वयं पक्षनदीतीरनरश्रुतिभुजादिकम् ॥ वयं कालामिभुवनगङ्गामार्गेशहग्गुणाः। ग्रीवारेखा महीकोणास्तथा शूलशिखावली ॥ सन्ध्या पुरः पुष्कराणि रामविष्णुज्वराऽज्रयः चत्वारि वेदब्रह्मास्यवर्णाब्धिहरिबाहवः ॥ स्वर्दन्तिदन्तसेनाङ्गोपाययामयुगाश्रमाः । पञ्च पाण्डवरुद्रास्येन्द्रियस्व व्रता(१)दयः ।। महाभूतमहापापमहाकाव्यमहामखाः । पुराणलक्षणं प्राणानिला वर्गेन्द्रियार्थकाः ॥ षड् वज्रकोणत्रिशिरोनेत्रतङ्गिदर्शनम् ।। चक्रवर्ती महासेनवदनानि गुणा रसाः ॥ (१)ग्रतामयः-इति वपु० .पाठः ।.... .....
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy