________________
षष्ठरते तृतीयमरीचिका धूसराणि रजो लूता करभो गृहगोधिका। .
कपोतमूषको दुर्गा काककण्ठखरादयः ॥ इदमुपलक्षणम् -
हरिताः सूर्यतुरमा बुधो मरकतादयः। इत्यपि बोद्धव्यम् । द्वैरूप्ये चाऽप्रसिद्धौ च नियमोऽयमुदाहृतः । अन्यद्वस्तु यथा यत्स्यात् तत्तथैवोपवर्ण्यते । • इत्यलङ्कारशेखरे कविसम्प्रदायरत्ने शुक्लादिनियममरीचिः।
१७इदानीं नियमानतरमाहएकस्मादासहस्रं च यद्यवस्तु यथा भवेत् ॥ .. तत्तत् कविप्रयोगेण ज्ञातव्यं काव्यमिच्छता ॥१॥ अत्र ज्ञातव्यम्
एक ऐन्द्रः करी चाश्वो गजास्यरदशुक्रहक् ।। द्वयं पक्षनदीतीरनरश्रुतिभुजादिकम् ॥ वयं कालामिभुवनगङ्गामार्गेशहग्गुणाः। ग्रीवारेखा महीकोणास्तथा शूलशिखावली ॥ सन्ध्या पुरः पुष्कराणि रामविष्णुज्वराऽज्रयः चत्वारि वेदब्रह्मास्यवर्णाब्धिहरिबाहवः ॥ स्वर्दन्तिदन्तसेनाङ्गोपाययामयुगाश्रमाः । पञ्च पाण्डवरुद्रास्येन्द्रियस्व व्रता(१)दयः ।। महाभूतमहापापमहाकाव्यमहामखाः । पुराणलक्षणं प्राणानिला वर्गेन्द्रियार्थकाः ॥ षड् वज्रकोणत्रिशिरोनेत्रतङ्गिदर्शनम् ।। चक्रवर्ती महासेनवदनानि गुणा रसाः ॥ (१)ग्रतामयः-इति वपु० .पाठः ।.... .....