________________
काव्यमाला। अत्र लावण्यद्रविणस्य व्ययसंबन्धेऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्रतिपादनार्थ निबद्धः । यथा वा'अस्याः सर्गविधौ प्रजापतिरभूञ्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो. मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं ने विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो विधिः ॥' अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्यसंबन्ध उक्तः । असंबन्धे संबन्धो यथा
'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥' अत्र संभावनया संबन्धः । यथा वा'दाहोऽम्भः प्रसूतिपचः प्रचयवान्बाष्पः प्रणालोचितः __श्वासाः प्रेजितदीप्रदीपकलिकाः पाण्डिम्नि मग्नं वपुः । किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने
हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिवर्तते ॥ . ह्यम् । संभावनयेति । न तु वस्तुतः । अत एव संबन्धस्यावास्तवत्वादुदाहरणान्तरमाह-दाहोऽम्भ इत्यादि । वाशब्दः समुच्चयार्थः । अत्र च कार्यकारणपौर्वापर्यविध्वंस इत्यनेन प्रसिद्धयोः कार्यकारणयोर्विध्वंसो विपर्ययस्तथ पौर्वापर्यस्यादिपश्चात्कालभावित्वेन प्रसिद्धस्य क्रमस्य विध्वंसो व्यत्ययः सहभावो वेत्यपि भेदत्रयं तन्त्रेणोक्तम् । एवं च कार्यकारणविध्वंसस्यापि पश्चप्रकाराः। अवान्तरप्रकारत्वात्पुनरेषां पश्चप्रकारत्वं नियमगीकारेण पूर्व व्याख्यातम् । तत्र कार्यकारणयोर्विपर्ययो यथा-'एअत्तं अवअत्तं संकोअअरं मिअङ्क कान्तीइं । गहस्सप अरइन्दस्स कारणं भणइ सरस्स (?) ॥' अत्रेन्दुकान्तेः संकोचे विपर्ययेण शतपत्रस्य कारणत्वमध्यवसितम् । अत्र भेदेऽभेद इत्येवंरूपातिशयोक्तिहेतुत्वेन स्थिता । उतरे त्वधै सैव श्लिष्टशब्दनिबन्धना हेतु: । तथाभावोपनिबन्धश्चात्र वक्रस्य लावण्यप्रकर्षप्रतिपादनार्थम् । क्रमविपर्ययो यथा-'कुपितस्य प्रथममन्धकारी भवति विद्या ततो भ्रुकुटि: । आदाविन्द्रियाणि रागः समास्कन्दति चरमं चक्षुः । आरम्भे तपो गलति पश्चात्स्वेदसलिलम् । पूर्वमयशः स्फुरत्यनन्तरमधर इति ।' अत्र कोपकार्ये विद्याभृकुट्यादीनामन्धकारीभवनादौ क्रमं निगीर्य तद्विपर्ययोऽध्यवसितः। तस्यैव सहभावो यथा-'रइभवणाहि परिअणो मसणं मणिमेहला णिअम्बाहिं । लजा हिअआहि
१. 'व्ययस्य' क. २. 'स्वविषय' क. ३. 'मुनिः' ख.