SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। विषयस्यापद्ववेऽपह्नुतिः। वस्त्वन्तरप्रतीतिरित्येव । प्रेक्रान्तापहववैधर्येणेदमुच्यते । आरोपप्रस्तावादारोपविषयापहुतावारोप्यमाणप्रतीतावपढ्त्याख्योऽलंकारः । तस्य च त्रयी बन्धच्छाया-अपह्नवपूर्वक आरोपः । आरोपपूर्वकोऽपहवः । छलादिश दैरसत्यत्वप्रतिपादकैर्वापह्नवनिर्देशः । पूर्वोक्तभेदद्वये वाक्यभेदः । तृतीयभेदे त्वेकवाक्यम् । आद्यो यथा जातमात्मनः ॥' अत्रैकस्यैव जन्मनो हेतूनामनेकधात्वोल्लेखनन् । फलोल्लेखस्तु यथा'धर्मायैव विदन्ति पार्थिव यथाशास्त्रं प्रजाः पालिता अर्थायैव च जानतेऽन्तरविदः कोषैकदेशस्य ये । कामायैव कृतार्थतामुपगता नार्यश्च निश्चिन्वते मोक्षायैव च वेदं जन्म भवतः कश्चिद्विपश्चिज्जनः ॥' अत्रैकस्यैव जन्मनः फलानामनेकधात्वोल्लेखनम् । विषयस्ये. त्यादि । वस्त्वन्तरेति । भ्रान्तिमतोऽनुवर्तत इति शेषः । अत एव केचन मण्डूकप्लतिन्यायेनानुवर्तनस्यानुचितत्वाभान्तिमदनन्तरमपगुतिम्रन्थकृता लक्षिता उल्लेखश्वातिशयोक्त्यनन्तरमिति ग्रन्थं विपर्यासितवन्तः । न चैतत् । यत उल्लेखस्तावदतिशयोक्त्यनन्तरं ग्रन्थकृता न लक्षितः । यद्वक्ष्यति–'एवमध्यवसायाश्रयेणालंकारद्वयमुक्ता गम्यमानौपम्याश्रया अलंकारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्येऽपि पदार्थगतमलंकारद्वयं क्रमेणोच्यते' इति । तस्माद्वस्त्वन्तरप्रतीतेर्भावाद्धान्तिमदनन्तरमेवास्य ग्रन्थकृता लक्षणं कृतम् । अत एव चोल्लेखेऽपि तत्संभवाद्वस्त्वन्तरप्रतीतेनिरन्तरमेवानुवर्तनादिहैवास्या लक्षणमुचितमिति यथास्थित एव ग्रन्थः साधुः । यद्येवं तर्युल्लेखापगुत्योरिहैव विपर्ययेण किं न लक्षणं कृतमित्याशङ्कयाह-प्रक्रान्तेत्यादि । इदमित्यपहुतिलक्षणम् । तदेव व्याचष्टे-आरोपेत्यादिना । विषयस्यापहवे विषयिणोऽन्यस्य विधिरित्यर्थः । तेन 'न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं तु ससंततिम् ॥' इत्यत्र विषस्य निषेधपूर्व ब्रह्मस्वविषय आरोप्यमाणत्वादृढारोपं रूपकमेव नापह्नुतिः । अपहृतेर्हि निषेध्यविषयभित्तितयैवान्यस्य विषयिणो विधानं लक्षणम् । अत्र तु निषेध्यस्यैव विषस्य ब्रह्मस्ववि. , षये आरोप्यमाणत्वाद्विधानम् । अथात्र मुख्यस्य विषस्य निषेधे आरोप्यमाणत्वात् ब्रह्मस्वविषस्य गौणस्य विधानमिति चेत्, तत्र ब्रह्मस्व विषस्य गौणस्य विधानमिति भणितेः कोऽर्थः । किं ब्रह्मस्वविषस्य विधानं किं वा द्वन्द्वपदार्थवद्ब्रह्मस्वस्य च विषस्य च ब्रह्मस्वे वा विषस्येति । तत्र नायः पक्षः । विषादिन्यायेन ब्रह्मस्वविषात्मनः कस्यचिद्वस्तुनो बहिरसं १. विषयापहवे' क. २. 'प्रक्रान्तानपहव' क. १. 'नयविदः' ख. २. 'देव' ख. ३. 'अप्रतीतेः' ख. ४. 'तद्देवं यदि' ख. ५. 'पुत्रपौत्रकम्' ख. ६. 'ब्रह्मस्वं विषं' ख.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy