SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। गाढमर्मप्रहारादिना तु भ्रान्ति स्यालंकारस्य विषयः । यथा दामोदरकराघातचूर्णिताशेषवंक्षसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥' सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थ कविप्रेतिभोत्थापितैव गृह्यते । यथोदाहृतं न स्वरसोत्थापिता शुक्तिकारजतवत् । एवं स्थाणुर्वा स्यात्पुरुषो वा स्यादिति संशयेऽपि बोद्धव्यम् । एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः । दातुं वाञ्छतीत्युक्तम् । एवं चात्र नेत्रद्वयाञ्जनदानसंतताभ्यासहेतुकः संस्कार एव प्रतीयते न तु तनिमित्तकोऽपि भ्रमः परमः । परमेश्वरार्धस्य तथात्वेनैवावगमात्तद्गन्धस्याप्यभावात् । अत एवाशिक्षितं स्मितलाञ्छितं चेत्युक्तम् । अवान्तर एवानयोर्विशेषोऽलंकारभाष्य ए. वोक्त इति तत एवानुसतव्य इति । एवं च सादृश्यनिमित्तैव भ्रान्तिरलंकारविषयो न निमित्तान्तरोत्थापितेति न लक्षणस्याव्यापकत्वं वाच्यम् । एवं सादृश्यनिमित्तकत्वादस्य साधारणधर्मस्यापि त्रयी गतिः। तत्रानुगामिता यथा—'नीलोत्पलमितिभ्रान्त्या विकासितविलोचनम् । अनुधावति मुग्धाक्षि पश्य मुग्धो मधुव्रतः॥' अत्र विकासीत्यनुगामित्वेन निर्दिष्टोधर्मः। शुद्धसामान्यरूपत्वं तु यथा-'अयमहिमरुचिर्भजन्प्रतीची कुपितवलीमुखतुण्डताम्रबिम्बः । जलनिधिमकरैरुदीक्ष्यते द्रावरुधिरारुणमांसपिण्डलोभात् ॥' अत्र ताम्रत्वारुणत्वयोः शु. द्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावो यथा-'पुसिआ कण्णाहरणेन्दणीलकिरणाहआ ससिमउहा । माणिणिवअणम्मि सकजलंसुसङ्काए दइएण ॥' अत्र सकजलत्वेन्द्रनीलकिरणाहतत्वयोर्बिम्बप्रतिबिम्बभावः । सादृश्यनिर्मित्तत्वं चास्य द्रढयितुं प्रत्युदाहरति-गाढे. त्यादिना । सादृश्यनिमित्तकत्वेऽपि कविप्रतिभोत्थापितैव भ्रान्तिरस्यैव विषयो न पुनस्तिवीत्याह-सादृश्येत्यादि । उदाहृतमिति । ओष्ठे बिम्वफलाशयेत्यादि । एतदेव संदेहेऽपि योजयति–एवमित्यादि । संशय इति । अर्थादारोपगर्भ एव । तत्रैव ह्यस्य सादृश्यं निमित्तम् । अध्यवसायमूले हि संदेहे सादृश्यात्संबन्धान्तराद्वा विषयविषयिणोः संदिह्यमानत्वं स्यात् । यथोदाहृतं प्राक् । एवमारोपगंर्भत्व एव सादृश्यं विना नायमलंकार इत्यवगन्तव्यम् । तस्मादविशेषेणैव साधर्म्य विहायापि निमित्तान्तरमवलम्ब्य नास्यालंकारत्वं वाच्यम् । सादृश्येऽपि कविप्रतिभोत्थापितस्यैवालंकारत्वं न पुनः स्वारसिकस्येति । एकस्यापीति । अनेकधा ग्रहणमिति न पुनरनेकधा कल्पनम् । ग्रहणं हि स्वारसिक्यामुत्पादितायां च प्रतिपत्तौ संभवति न तु स्वारसिक्यामेव । यदाहुः--'अतः शब्दानुसंधानवन्ध्यं तदनुबन्धि वा । जात्यादिविषयग्राहि सर्व प्रत्यक्षमिष्यते ॥' इति । १. 'चक्षुषा' ख. २. 'प्रतिभैव' ख. १. 'प्रोञ्छिताः कर्णाभरणेन्द्रनीलकिरणाहताः शशिमयूखाः । मानिनीवदने सकजलाश्रुशङ्कया दयितेन ॥' इति च्छाया. २. 'निमित्तकत्वमेव चास्य' ख. ३. 'गर्भ एव सादृश्येऽपि नायमेवालंकारः' क. ४. 'अशेषेणैव' क.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy