________________
अलंकारसर्वस्वम् ।
२०५ लोकवदाश्रयाश्रयिभावश्च तत्तदलंकारनिबन्धनम् । अन्वयव्यतिरेको तु तत्कार्यत्वे प्रयोजकौ । न तदलंकारत्वे । तदलंकारप्रयोजकत्वे तु श्रौतोपमादेरपि शब्दालंकारत्वप्रसङ्गात् । तस्मादाश्रयाश्रयिभावेनैव चिरंतनमतानुसृतिरिति भद्रम् ॥ संपूर्णमिदमलंकारसर्वस्वम् । कृतिस्तत्रभवदाजानकरुय्य(च)कस्य ।
इत्यादि । संकरस्य यथा-'मैवमेवास्वसच्छायकर्णिकाचारुवर्णिता । अम्भोजिनीव चित्रस्था नेत्रमात्रसुखप्रदा ॥' अत्र शब्दार्थालंकारसंसर्गादुभयालंकारत्वम् । संकरस्य चैतदुभयालंकारत्वमौद्भटमत एवावसेयम् । ग्रन्थकृता ह्यस्य समनन्तरमेय संसृष्टावन्तर्भाव उक्तः । अतश्च ग्रन्थकृन्मते लाटानुप्राससंसृष्टिः । श्लेषाणामेवोभयालंकारत्वम् । ननु तुल्यत्वेऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलंकारः शब्दस्य कश्चिदर्थस्य कश्चिदुभयस्येति कुतः पुनरयं प्रतिनियम इत्याशङ्कयाह-लोकवदित्यादि । लोके हि योऽलंकारो यदाश्रितः स तदलंकारतयोच्यते, यथा कुण्डलादिः कर्णाद्याश्रितस्तदलंकारः । एवमिहापि शब्दाद्याश्रितस्तदलंकार इति सिद्ध एव विषयविभागरूपः प्रतिनियमः । यत्त्वन्यैरन्वयव्यतिरेको तदलंकारनिबन्धनत्वेनोक्तौ तदयुक्तमेवेत्याह-अन्वयेत्यादि । एवं हि श्रौतोपमायामिवादिशब्दान्वयव्यतिरेकानुवर्तनात्तत्कार्यमेव न पुनस्तदलंकारत्वम् । तस्याविशेषात् । अर्थस्य पुनरलंकृतत्वात्तदलंकारत्वमेव युक्तमिति तात्पर्यार्थः । एतच्चोद्भटविवेके राजान[क]तिलकेन सप्रपञ्चमुक्तमिति ग्रन्थविस्तरभयानेहास्मामिः प्रपश्चितम् । एतदेवोपसंहरति-तस्मादित्यादि । आश्रयाश्रयिभावेनेति । उपस्कार्योपस्कारकभावेनेत्यर्थः । तेन योऽलंकारो यदुपस्कारः स तदलंकार इति पिण्डार्थः । चिरंतनेति । अनेनास्माभिः सर्वत्रैव तन्मतानुसूतिरेव कृतेत्यात्मविषयमनौद्धत्यमपि ग्रन्थकृता प्रकाशितमिति शिवम् ॥
राजराज इति भूभुजामभूदग्रणीर्गुणिगणाश्रयः परम् । तां सतीसरसि राजहंसतामातनोत्किल धनागमेऽपि यः ।।
शक्राधिकश्रियस्तस्य श्रीशृङ्गार इति श्रुतः । गुणातिक्रान्तधिषणो मन्त्रिणामग्रणीरभूत् ॥ तदात्मजन्मा वैदग्ध्यबन्धुर्जयरथाभिधः ।
व्यधादिदमसामान्यं श्रवणाभरणं सताम् ॥ यन्नाम किंचिदिह सम्यगथान्यथा वा साक्षादलंकृतिनयोचितमेतदुक्तम् । विद्वषेरोषमपसार्य बुधैः क्षणस्य तत्रावधेयमियतैव वयं कृतार्थाः ॥
इति श्रीजयरथविरचितालंकारविशिनी संपूर्णा ॥