________________
अलंकारसर्वखम्।
१९५ कारान्तरत्वेऽपि च संयोगन्यायेन स्फुटावगमो भेदः । समवायन्यायेन वास्फुटत्वावगम इति द्वैधम् । पूर्वत्र संसृष्टिः, उत्तरत्र संकरः । अत एव तिलतण्डुलन्यायः, क्षीरनीरन्यायश्च तयोर्यथार्थतामवगमयतः । तत्र तिलतण्डुलन्यायेन भवन्ती संसृष्टिस्त्रिधा । शब्दालंकारगतत्वेन, अर्थालंकारगत- , त्वेन, उभयालंकारगतत्वेन च । तत्र शब्दालंकारसंसृष्टिर्यथा
'कुसुमसौरभलोभपरिभ्रमझमरसंभ्रमसंभृतशोभया ।
वैनितया विदधे कलमेखलाकलकलोऽलकलोलशान्यया ॥' अत्रानुप्रासयमकयोर्विजातीययोः संसृष्टिः । अत्रैव 'अलकलोलकलोल' इति, तथा 'कलोलकलोल' इति सजातीययोर्यमकयोः संसृष्टिः । अर्थालंकारसंसृष्टिर्यथा
'देवि क्षपा गलति चक्षुरमन्दतार
मुन्मीलयाशु नलिनीव सभृङ्गमन्जम् । एष त्वदाननरुचेव विलुण्ठ्यमानः
पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्कः ॥ अत्र सजातीययोरुपमोत्प्रेक्षयोः संसृष्टिः ।
'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः ।
असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥' च न वाच्यम् । प्रविरलविषयत्वेऽप्युपमादीनां न संसृष्टिसंकरयोरेवं लक्षणीयतया प्राप्तिस्तावन्मात्रविषयस्वीकारायाप्येषों पृथग्लक्षयितुमुचितत्वात् । एवं च न संसृष्टिः । पूर्व हाराच्चारुत्वाभावाञ्चेत्याद्युक्तमयुक्तम् । अत एव च 'तस्मात्समस्तविषये प्रतिबन्धकारे सं. सृष्टिसंकथने चलिते विदूरम् । प्राधान्यतः स्वविषयं सुविशालमाप्य सर्वोऽप्यलंकृतिगणो रसतां चिराय ॥' इत्याशीर्वचनसूक्तमपि निष्प्रयोजनम् । नन्वेवं यद्यलंकारान्तरत्वं युक्तं तदेक एव संसृष्टिः संकरो वास्तु, किं द्वाभ्यामित्याशङ्कयाह-[अलंकारान्तरत्वेऽपि चेति ।] श्रीभोजदेवेन पुनर्भेदस्य स्फुटास्फुटत्वमाश्रित्य नानालंकारसंकरः संसृष्टिरिति संकीर्णमात्राभिप्रायेण संसृष्टयाख्य एक एवालंकार उक्तः । विजातीययोरिति । यमकानुप्रासयोभिन्नलक्षणत्वात् । अत्र च प्रधानस्यानुप्रासस्य परिपोषकत्वेनाङ्ग यमकमिति संकरोदाहरणं न वाच्यम् । अत्र हि यमकसर्गस्योपक्रान्तत्वात्तत्रैव कवितुः सं
१. 'वदनसौरभ क. २. 'वलितया' क.
१. 'एकलक्षणीयतया' क. २. 'एषा' क. ३. पुस्तकद्वयेऽप्यत्र च्छन्दोभङ्गो दृश्यते. ४. पुस्तकद्वयेऽपि प्रतीकमेतन्न गृहीतम्.