SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वखम्। १९५ कारान्तरत्वेऽपि च संयोगन्यायेन स्फुटावगमो भेदः । समवायन्यायेन वास्फुटत्वावगम इति द्वैधम् । पूर्वत्र संसृष्टिः, उत्तरत्र संकरः । अत एव तिलतण्डुलन्यायः, क्षीरनीरन्यायश्च तयोर्यथार्थतामवगमयतः । तत्र तिलतण्डुलन्यायेन भवन्ती संसृष्टिस्त्रिधा । शब्दालंकारगतत्वेन, अर्थालंकारगत- , त्वेन, उभयालंकारगतत्वेन च । तत्र शब्दालंकारसंसृष्टिर्यथा 'कुसुमसौरभलोभपरिभ्रमझमरसंभ्रमसंभृतशोभया । वैनितया विदधे कलमेखलाकलकलोऽलकलोलशान्यया ॥' अत्रानुप्रासयमकयोर्विजातीययोः संसृष्टिः । अत्रैव 'अलकलोलकलोल' इति, तथा 'कलोलकलोल' इति सजातीययोर्यमकयोः संसृष्टिः । अर्थालंकारसंसृष्टिर्यथा 'देवि क्षपा गलति चक्षुरमन्दतार मुन्मीलयाशु नलिनीव सभृङ्गमन्जम् । एष त्वदाननरुचेव विलुण्ठ्यमानः पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्कः ॥ अत्र सजातीययोरुपमोत्प्रेक्षयोः संसृष्टिः । 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः । असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥' च न वाच्यम् । प्रविरलविषयत्वेऽप्युपमादीनां न संसृष्टिसंकरयोरेवं लक्षणीयतया प्राप्तिस्तावन्मात्रविषयस्वीकारायाप्येषों पृथग्लक्षयितुमुचितत्वात् । एवं च न संसृष्टिः । पूर्व हाराच्चारुत्वाभावाञ्चेत्याद्युक्तमयुक्तम् । अत एव च 'तस्मात्समस्तविषये प्रतिबन्धकारे सं. सृष्टिसंकथने चलिते विदूरम् । प्राधान्यतः स्वविषयं सुविशालमाप्य सर्वोऽप्यलंकृतिगणो रसतां चिराय ॥' इत्याशीर्वचनसूक्तमपि निष्प्रयोजनम् । नन्वेवं यद्यलंकारान्तरत्वं युक्तं तदेक एव संसृष्टिः संकरो वास्तु, किं द्वाभ्यामित्याशङ्कयाह-[अलंकारान्तरत्वेऽपि चेति ।] श्रीभोजदेवेन पुनर्भेदस्य स्फुटास्फुटत्वमाश्रित्य नानालंकारसंकरः संसृष्टिरिति संकीर्णमात्राभिप्रायेण संसृष्टयाख्य एक एवालंकार उक्तः । विजातीययोरिति । यमकानुप्रासयोभिन्नलक्षणत्वात् । अत्र च प्रधानस्यानुप्रासस्य परिपोषकत्वेनाङ्ग यमकमिति संकरोदाहरणं न वाच्यम् । अत्र हि यमकसर्गस्योपक्रान्तत्वात्तत्रैव कवितुः सं १. 'वदनसौरभ क. २. 'वलितया' क. १. 'एकलक्षणीयतया' क. २. 'एषा' क. ३. पुस्तकद्वयेऽप्यत्र च्छन्दोभङ्गो दृश्यते. ४. पुस्तकद्वयेऽपि प्रतीकमेतन्न गृहीतम्.
SR No.023476
Book TitleAlankar Sarvasvam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kasinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1893
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy