________________
अलंकारसर्वस्वम् । १७९ निवेशनं सोऽत्रास्तीति । न चेयं भ्रान्तिः । भूतभाविनो भूतभावितयैव प्रकाशनात् । नापि रामोऽभूदितिवद्वस्तुमात्रम् । भूतभाविगतस्य प्रत्यक्षत्वादिगतस्य धर्मस्य स्फुटस्याधिकस्य प्रतिलम्भात् । नापीयमतिशयोक्तिः। अन्यस्यान्यतयाध्यवसायाभावात् । नहि भूतभाव्यभूतभावित्वेनाध्यवसीयते,, अभूतभावि वा भूतभावित्वेनापि, प्रत्यक्षमप्रत्यक्षगतत्वेन, अप्रत्यक्षमपि प्रत्यक्षत्वेन । __ न हि प्रत्यक्षत्वं केवलं वस्तुधर्मः । प्रतिपत्त्यपेक्षयैव वस्तुनि तथाभावात् । यदाहुः—'तत्र यो ज्ञानप्रतिभासनात्मनोऽन्वयव्यतिरेकावनुकारयति स प्रत्यक्षः' इति । केवलवस्तुप्रत्यक्षत्वे प्रतिपत्तुः सामग्री उपयुज्यते । सा च लोकयात्रायां चक्षुरादीन्द्रियस्वभावायोगिनामतीन्द्रियार्थदर्शने भावनारूपा । काव्यार्थविदां च भावना स्वभावैव । सा च भावना वस्तुगत्यात्यद्भुतत्वप्रयुक्ता । अत्यद्भुतानां च वस्तूनामादरप्रत्ययेन हृदि संधार्यमाणत्वात् । नापि भूतभाविनामप्रत्यक्षाणां प्रत्यक्षतयैव प्रतीतेरिवार्थगर्भीकारे
क्रान्तिमानेवायं किं न भवतीत्याशङ्कयाह-न चेयमित्यादि । ननु यदि भूतभावितयैव प्रतीयते तदेतद्वस्त्वेव किं नेत्याशङ्कयाह-नापीति । अधिकस्यति । वस्तुवृत्ते तस्यासंभवात् । अत एवास्य ततो व्यतिरेकः । नन्वस्यान्यतयावसायाम्कि नायमतिशयोक्तिरित्याशङ्कयाह-नापीयमित्यादि । भूतभाविनो भूतभावितयैवास्फुटतयावगमात् । नन्वत्राप्रत्यक्षमेवे प्रत्यक्षेण किं नाध्यवसितमित्याशङ्कयाह-नहीत्यादि । तच्चाप्रस्तुतत्वाद्गहनत्वाच्च नेह प्रपञ्चितम् । ननु यद्येवं तत्प्रमातुः सदैव समस्तबाह्यवस्त्ववगमः किं न स्यादित्याशङ्कयाह-केवलमित्यादि । भावनारूपेति । तत्रेन्द्रियादीनामव्यापारणात् । एवं योगिनां भावनाबलाद्भूतभावितयैव प्रत्यक्षावभास इति भावः । यदाहु:-'अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते' इति । चः समुच्चये । तेन योगिनामतीन्द्रियार्थदर्शने यथा भाविना निमित्तं तथैव काव्यार्थविदामपीत्यर्थः । तस्याश्च निमित्तमाह-सा चेत्यादि । वस्तुनोऽत्यद्भुतत्वमादरे निमित्तम् । आदरश्च वस्तुनो हृदि संधारणम् । तच्च तदेकतानतया प्ररूढं सद्भावनात्वमुपयातीति काव्यार्थविदां योगिनामिव भावनाबलात्स्वकालावच्छेदेनैव भतभाविवस्तुप्रत्यक्षतया भासत इति नाप्रत्यक्षाणां प्रत्यक्षतयाध्यवसायः। ननु यद्यपि योगविद्भूतभाविनो भावाः स्वकालावच्छेदेनैव सचेतसः प्रत्यक्षतयेव तदभावभासनं युक्तमित्येतत्प्रतीयमानोत्प्रेक्षैव किं नेत्याशङ्कयाह-नापीत्यादि ।
१. 'किं नेत्याह' ख. २. 'एवाप्रत्यक्षेण' ख. ३. 'दर्शनेन' क,