________________
काव्यमाला।
न्तमतरद्विशल्यां सौमित्रेरयमुपनिनायौषधिवनात् । इति स्मारं स्मारं त्वदरिवलभीचित्रलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥' अत्र राक्षसगणवृत्तान्तो वाच्यः सन् स्वसिद्धये परं कारणरूपमरिपलायनाद्याक्षिपति । तत्पलायनाद्यन्तरेण राक्षसवृत्तान्तस्यासंगतेः । अप्रस्तुतप्रशंसा यथा-'प्राणा येन समर्पितास्तव बलायेन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि । तस्यास्य स्मितमात्रकेण जनयन्प्राणापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायसे ॥' अत्र वेतालच. रितमप्रस्तुतं प्रकरणादिवशेन स्वयमनुपपद्यमानं सत्प्रस्तुते कृतनवृत्तान्ते स्वं समर्पयति । समासोक्तिर्यथा-'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥' अत्र बोधिसत्त्वे नायकव्यवहारो न संभवतीति स्वसिद्ध्यर्थे नायकत्वमाक्षिपति। आक्षेपो यथा-'किं भणिमो भण्णइ कित्ति अध किं वा इमेण भणिएण । भणिहिसि तहवि अहवा भणामि किं वा ण भणिओसि ॥' अत्र वक्ष्यमाणविषयो भणननिषेधो वाच्यः सन्वक्तुमेवोपक्रान्तस्य निषेधानुपपत्तेः स्वयमविश्राम्यन्स्वात्मसमर्पणेन त्वां प्रति मरिष्यामि अथवा म्रिये यद्वा मृता यावदहमिति विधित्रयमर्थान्तरमाक्षिपति । यत्त्ववान्यैः 'वाच्योऽर्थः स्वसि. द्धयेऽर्थान्तरमाक्षिपति' इत्युक्तं तदयुक्तमेव । तथात्वे हि निषेध एव पर्यवसितः स्यान निषेधाभास इत्याक्षेपालंकार एव न स्यात् । आमुखावभासमानो हि निषेध आक्षेपलक्षणम् । न च विधिनिषेधयोर्विरोधात्साध्यसाधनभावो युक्तः । व्याजस्तुतियथा-'ईहिणं पहुणो पहुणो पहुत्तणं किं चिरंतनपहूण । गुणदोसा दोसगुणा एहिँ कआ णहु कआ तेहिं ॥' अत्र चिरंतनानां निन्दा वाच्या सती स्वयमनुपपद्यमाना स्तुतावात्मानमर्पयति। तद्गतत्वेन वस्तुदर्शिताया निन्दाया असंभवात् । एवमद्यतनानामपि स्तुतिनिन्दायामात्मानमर्पयति । तस्या अपि विपरीततया तद्गतत्वेनासंभवात् । यत्पुनरत्रान्यैः स्वसिद्धये पराक्षेपो व्याख्यातस्तदुपेक्ष्यमेव । यतोऽत्र चिरंतनानां स्तुत्याक्षेपेण निषिद्धा निन्दैव प्र. तीयेत अद्यतनानां च निन्दाक्षेपेण निषिद्धा स्तुतिरेवेति वाक्यार्थविप्रलोप एव पर्यवसितः स्यादिति नैतद्युक्तम् । किं च लक्षणायामपि स्वसिद्धये पराक्षेपो न युक्तः । तथात्वे हि लक्षणायाः स्वरूपहानिः स्यात् । वाच्यलक्षणस्यैव स्वस्य सिद्धत्वान्मुख्याथबाधाभावात् । न चैकदा एकस्य बाधः सिद्धिश्चेति वक्तुं युक्तम् । विप्रतिषिद्धं ह्येतत् । वाच्यस्यैव यद्यत्र सिद्धिस्तदभिधैव स्यान्न लक्षणा। तस्या हि मुख्यार्थबाध एव जीवितम् । 'कुन्ताः प्रविशन्ति' इत्यादौ च कुन्तानां स्वयं प्रवेष्टुमसंभवान्मुख्यार्थषाध ए
१. 'किं भणामो भण्यते किमिति अथ किं वा अनेन भणितेन । भणिष्यसे तथापि अथवा भणामि किं वा न भणितोऽसि ॥' इति च्छाया. २. 'विधिरूप' ख. ३. 'तदयुक्तमेव । अत्र सम्यडिषेधः न निषेधाभासः' ख. ४. 'अधुना प्रभवः प्रभवः प्रभुत्वं किं चिरंतनप्रभूणाम् । गुणदोषा दोषगुणा एभिः कृता न खलु कृता तैः ॥' इति च्छाया.