SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ संकरसरः (१२१) 81 वतस्सरसत्वं वामदेवेत्यनेन तव्यतिरेक वक्रत्वं च सूच्यते । अत्र पूर्वार्धोत्तरार्धयोः अक्षरपञ्चकानुलोम्यप्रातिलोम्यलक्षणशब्दालङ्कारौ परिसङ्ख्यया अर्थालङ्कारेण संसृष्टौ ॥ इत्यलङ्कारमणिहारे संसृष्टिसरो विंशत्युत्तरशततमः. अथ संकरसरः (१२१) यत्रान्योन्यमलंकाराः क्षीरनीरनयादमी । संकीर्येरन संकरोऽयमिति काव्यविदो विदुः ॥ क्षीरनीरन्यायेनास्फुटभेदालंकारमेळने संकर इत्यर्थः ॥ सोऽयमङ्गाङ्गिभावेन समप्रधान्यतस्तथा । संदेहेन तथा चैकवाचकानुप्रवेशतः ॥ चतुर्था संकरः प्रोक्तश्श्रीमदप्पयदीक्षितैः । एवं नृसिंहाकृतयः पञ्चालंकृतयो मताः ॥ एवं संसृष्टिप्रभृतयः पञ्चालंकृतयो नरसिंहाकारा इत्यर्थः ॥ अप्रधानालंक्रियया प्रधानालंक्रिया यदि । ऊज्जीव्येत तदाऽङ्गाङ्गिभावसंकर इष्यते ॥ यथा वदनसुषमासुधाम्बुधिनिमग्नकुसुमारकरिकिशोरेण । शुण्डाग्रमिवोन्नमितं मृगमदतिलकं विभात्यहिनगेन्दोः ॥ २१३६ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy