________________
संकरसरः (१२१)
81
वतस्सरसत्वं वामदेवेत्यनेन तव्यतिरेक वक्रत्वं च सूच्यते । अत्र पूर्वार्धोत्तरार्धयोः अक्षरपञ्चकानुलोम्यप्रातिलोम्यलक्षणशब्दालङ्कारौ परिसङ्ख्यया अर्थालङ्कारेण संसृष्टौ ॥
इत्यलङ्कारमणिहारे संसृष्टिसरो विंशत्युत्तरशततमः.
अथ संकरसरः (१२१)
यत्रान्योन्यमलंकाराः क्षीरनीरनयादमी ।
संकीर्येरन संकरोऽयमिति काव्यविदो विदुः ॥ क्षीरनीरन्यायेनास्फुटभेदालंकारमेळने संकर इत्यर्थः ॥
सोऽयमङ्गाङ्गिभावेन समप्रधान्यतस्तथा । संदेहेन तथा चैकवाचकानुप्रवेशतः ॥ चतुर्था संकरः प्रोक्तश्श्रीमदप्पयदीक्षितैः ।
एवं नृसिंहाकृतयः पञ्चालंकृतयो मताः ॥ एवं संसृष्टिप्रभृतयः पञ्चालंकृतयो नरसिंहाकारा इत्यर्थः ॥
अप्रधानालंक्रियया प्रधानालंक्रिया यदि । ऊज्जीव्येत तदाऽङ्गाङ्गिभावसंकर इष्यते ॥ यथा
वदनसुषमासुधाम्बुधिनिमग्नकुसुमारकरिकिशोरेण । शुण्डाग्रमिवोन्नमितं मृगमदतिलकं विभात्यहिनगेन्दोः ॥ २१३६ ॥