________________
76
अलंकारमणिहारे
यथावा
वसुदेवसुतो भगवात्सूतोऽजनि पारदश्च युक्तमिदम् । कथमितरथा रसो वै स इति श्रुतिवचनमर्थवत्त्वमियात् ॥ २११८॥
भगवान् वसुदेवसुतः सूतः पारदश्च अजनीति युक्तम् । वस्तुतस्तु सूतः अर्जुनस्य सारथिः। जनिपारद इति समस्तं पदम् । जने: जन्मनः पारं ददातीति पारदः जन्मपरंपरापारभूतनिश्श्रेयसप्रद इत्यर्थः॥
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन । .. इति गानात् । अनेन
संसारार्णवमग्नानां विषयाक्रान्तचेतसाम् । विष्णुपोतं विना नान्यत्किचिदस्ति परायणम् ॥ दुर्ग संसारकान्तारमपारमभिधावताम् । एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः ॥ इत्यादिकं स्मार्यते । इतरथा एवं सूतत्वपारदत्वाभावे 'रसो वै सः' इति श्रुतिवचनं कथमर्थवत्स्यात् तस्य रसत्वादेव सूतत्वपारदत्वे युक्ते इति भावः । 'रसस्सूतश्च पारदः' इति त्रयाणामपि शब्दानां तुल्यार्थकत्वानुशासनात् । रसः आनन्दमय इति वस्तुस्थितिः । अत्र भगवतो रसत्वान्यथानुपपत्त्या सूतत्वपारदत्वे कल्प्येते॥
यथावा-- · अञ्जनमञ्जनगिरिपतिमञ्जुलसुषमां जहार मन्येऽहम् । सुदृशामिदमक्षिगतं ददृशे कथमन्यथा तदिदम् ॥ २११९ ॥