________________
अलंकारमणिहारे
स्वरूपेणोच्चारणरूपं निपातं कथंनु आह । 'स्वामिन्नैश्वर्ये' इति सूत्रेण ऐश्वर्यरूपार्थे स्वामिनिति निपातितत्वादिति भावः । इत्यस्माकं विचिन्ता ॥
यथावा
प्रथमः पुमान् समन्तादचीकशत्सर्वनामरूपमिति । श्रुतिराह पाणिनिमुनिस्तस्य क्वचिदेव तदिदमाह कथम् ॥ २०८१ ॥
श्रुतिः–'अनेन जीवनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि' इति श्रुतिः प्रथमः पुमान् परब्रह्मभूतः पुरुषोत्तमः समन्तात् सर्वतः सर्वनामरूपं सर्वेषां नाम च रूपं च अनयोस्समाहारं, अन्यत्र पुमान् पुंलिङ्गः प्रथमः प्रथम इति शब्दः समन्तात् सर्वनामताप्रयुक्तकर्यास्पदभूतासु सर्वासु विभतिषु सर्वनामरूपं सर्वनामशब्दरूपं अचीकशत् प्रकाशितवान् इत्याह। पाणिनिमुनिस्तु तस्य प्रथमस्य पुंसः तदिदं सर्वनामरूपप्रकाशनं क्वचिदेव एकदेश एवेति कथमाहेत्याश्चर्यम् । पुल्लिङ्गस्य प्रथमशब्दस्य जस्येव सर्वनामतां 'प्रथमचरमतयाल्पार्धकतिपयनेमाश्च' इति सूत्रेणावादीदित्याक्षेपपरिहारः ॥ ___ अत्र पद्यत्रयेऽपि सूत्रस्य सर्वसंप्रतिपन्नार्थप्रत्यनीकार्थस्य प्रकाशनपरतां श्लेषेण परिकल्प्य तदभेदाध्यवसायेन तत्प्रणेत्रधिक्षेपाय वैहासिकेन प्रमाणतयोपन्यास इति विशेषः ।।
यथावा
सकलनयविषयनिगमोद्धरणादरजुषि फणीन्द्रगिरिनेतः । कथमिव मात्स्ये रूपे नयलोपं ते वदन्ति शब्दविदः ॥ २००२ ॥