________________
48
अलंकारमणिहारे
निर्धारणे किं प्रमाणमित्यत्राह-शब्दनयादिति । व्याकरणनयात् बोधे गुणास्तित्वमुक्तमिति भावः । तत्पक्ष बुधधातीर्घा निष्पन्ने बोधशब्धे ‘पुगन्तलघूपधस्य च' इति गुणविधानाद्गुणोऽस्तीति भावः । अत्र स्वविवक्षितस्य बोधरूपगुणे सुमहाशक्तिरूपगुणसद्भावस्य उपपादितशक्तिगुणशब्दगतश्लेषमूलाभेदाध्यवसायेन शब्दाशास्त्रीयप्रक्रियायाः प्रमाणता ॥
यथावा
पद्मे तवाङ्गरोचिः परिभवति स्वर्णवर्णसौभाग्यम् । वर्णयति शाब्दिकौघो वार्णादाङ्ग बलीय इति तस्मात् ॥ २०७४॥
अत्र वर्णकार्यादङ्गाधिकारकार्यस्य बलीयस्त्वमभिदधाना 'वादाङ्गम्' इति परिभाषा अङ्गवर्णशब्दप्रतिपाद्यार्थद्वयश्लेषभित्तिकाभेदाध्यवसायबलेन स्वाभिमतार्थे प्रमाणत्वेनोपन्य स्तति विशेषः॥
यथावा
स्वार्थे विबाधते परमच्युत नित्यं च मेऽन्तरङ्गं त्वाम् । शाब्दिकमुनिराह परान्नित्यादप्यन्तरङ्गमधिकबलम् ॥२०७५॥
हे अच्युत ! नित्यं 'नित्यो नित्यानाम्' इति श्रुतेः। परं च 'परः पराणाम्' इति श्रुतेः । त्वां मे अन्तरङ्गं मनः कर्तृ स्वार्थे स्वाभीप्सितप्रयोजने विषये बाधते पीडयतीति यावत् । 'नूनं स्वार्थपरो लोको न वेद परसंकटम्' इति भावः । अन्यत्र परं नित्यं च शास्त्रं कर्म अन्तरङ्गं अन्तरङ्गशात्रं कर्त स्वार्थे विषये बाधते तत्प्रवृत्तिविघातकं भवतीत्यर्थः। अत्र