________________
शब्दप्रमाणसर: (११५)
45
त्रानुकूला। ऋषय इति बहुवचनान्त ऋषिशब्दः परमात्मपरतया 'तथा प्राणाः' इत्यधिकरणे अभाषि । आह वदति ॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ इति गायन् भगवान् बिभर्तीत्यनेन 'यत्र विश्वं भवत्येकनीडम्' इति श्रुतिं नारायणपरामेवाहेत्यर्थः । तथाह्यत्रोपबृंहणे ‘परमात्मेत्युदाहृतः' इत्यनेन-'तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः' इति श्रुतिः स्मार्यते । 'यो लोकत्रयमाविश्य' इत्यनेन 'यच्च किंचित्' इत्यादिकं व्याख्यातम् । “लोक्यत इति लोकः तत्रयं लोकत्रयं अचेतनं तत्संसृष्टश्चेतनः मुक्तश्चेति प्रमाणावगम्यमेतत्रयं य आत्मतयाऽऽविश्य बिभर्ति तस्माद्वयाप्याद्भर्तव्याञ्चार्थान्तरभूतः" इति श्रीमद्गीताभाष्यम् । बिभर्तीत्याधारत्वोक्तया 'यत्र विश्वं भवत्येकनीडं, तत्सवितुर्वरेण्यं, ध्रुवमचलममृतं विष्णुसंशं साधारं धाम' इत्यादेरर्थ उक्तः । अव्ययशब्दोक्तया 'शाश्वतं शिवमच्युतम्' इत्यायुक्तसंग्रहः। ईश्वरशब्द इह 'व्याप्य नारायणस्थितः' इत्युक्तव्याप्तेः 'अन्तः प्रविष्टश्शास्ता' इत्याद्यनुसारात्समस्तनियमनविशिष्टत्वं 'अत्मेश्वरम्' इत्युक्तानन्यनियाम्यत्वं चाभिप्रेतीति 'पुरुषोत्तमः कः'। इत्यत्र श्रीमत् स्तोत्रभाष्यम् । तस्मात् 'यत्र विश्वं भवत्येकनीडम्' इति श्रुति नारायणे स्वस्मिन्नेव तत्परामाह गीताचार्य इति सुष्टक्तम् ॥
अर्थान्तरं तु-शब्दवित् व्याकरणवेत्ता ऋषिः पाणिनिः