________________
अलङ्कारमणि
वैताने भुवि जनिता मा तारारामदमनयोज्याज्ञा मानातिगविभवनदी दासावनसारसरसनयनाभा भानायनसरसरसा अनवसादा आदीनवभविगतिनामा ज्ञा ज्यायः नमदमरा राता माता निजविभुना इता वै । इति पद्यद्वय पदच्छेदः । वैताने वितानसंबन्धिनि कर्मणीति यावत् । यशिय भूकर्षणावसरे इति भावः । भुवि भूमौ जनिता मा श्रीः इदं विशेष्यम् । तारारामदमनयोज्याज्ञा । तारायाः रामः रमणः वालीत्यर्थः । तस्य दमनः दण्डयिता भगवान् दाशरथिः तस्मिन् योज्या योजनीया आज्ञा शासनं यस्यास्सा तस्य तदाशानुवर्तितायाश्श्रीरामायणे प्रसिद्धत्वात् । मानातिगविभवनदी मानातिगः वेलातीतः यो विभवः वैभवः तस्य नदी आश्रयभूतेति यावत् । भगवत्यां नदीत्वरूपणेनारूपितमाप विभवस्य सलिलत्वं प्रतीयत इत्येकदेशविवर्तिरूपकविशेषः । अतः एव 'महाविभववाहिनी' इति तन्नामसहस्त्रे पठ्यते । दासावनसारसरसनयनाभा दासानां किंकराणां अवने रक्षणे विषये सारा श्रेष्ठा सरसा सदया नयनाभा लोचनश्रीः यस्यास्तथोक्ता । भानायनसरसरसा भानस्य प्रकाशस्य भातेर्भावे ल्युट् । अयनं मार्गः आश्रय इति यावत् । तादृशो यस्सरः हारः तेन सरसा रमणीयेति यावत् । अनवसादा अविद्यमानः अवसादः कायै यस्यास्सा | आदीनवभविगतिनामा आदीनवः क्लेशः 'आदीनवास्त्रवौ क्लेशे' इत्यमरः । आदीनवयुक्तानां भविनां संसारिणां गतिः गम्यत इति गतिः कर्मणि क्तिन् । प्राप्यं नाम यस्यास्तथेोक्ता तापत्रयदूषितसंस/रिजनानुसंधयनामधेयेति भावः । ज्ञा विदुषी सर्वज्ञेत्यर्थः । अत एव 'सर्वज्ञा कमलप्रभा ' इति तन्नामसु पठन्ति । ज्यायः इदमुत्तरत्रान्वेति । नमदमरा नमन्तः अमराः यां तथोक्ता । निजवि - भुना स्ववल्लभेन भगवता इता युक्ता ज्यायः श्रेयः अतिप्रशस्यमै
226