________________
224
अलङ्कारमीणहारे
ध्यानान इति भावः नाम्नां आनानात् अभ्यासात् अपरा अन्या नराणां मानवानां विपदः संस्मृतिरूपापदः अपनयने उत्सारणे गतिः उपायः नास्ति त्वन्नामसंकीर्तनमेव विपदुत्तरणोपाय इत्यर्थः। यथोख्यते
कलेदोषनिधे राजान्नस्ति ह्येको महान्गुणः ।
कीर्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥ - इति । अत्राद्यतृतीयपादयोरन्ते वर्णद्वितयस्य एकान्तरिततया परिवर्तनम् । द्वितीयतुरीययोस्तु अव्यवहिततया वर्णचतुष्टयस्पेति बोध्यम् ॥
अर्धस्य प्रातिलोम्येनावृत्तिर्यथा- सा भायादनघतरा कान्ताशाऽतीव जनवरामोदा । दामोरा वनजवती शान्ताकाऽऽरातघनदया भासा ॥ २३०५ ॥ . साभायात् अनघतरा कान्ताशा अतीव जनवरामोदा दामोराः घनजवती शान्ताका आरातघनदया भासा । इति पदच्छेदः । अनघतरा अपहतपाप्मा कान्ताशा कान्ते वल्लभे भगवति आशा आभलाषो यस्यास्सा भगवद्विषयकनिरतिशयप्रीतिशालिनीति भावः । यद्वा आशः व्याप्तिः 'अशू व्याप्ती' भावे घञ् । कान्तस्य आश इव आशो यस्यास्सा ‘त्वया च विष्णुना चाम्ब जगद्व्याप्तं चराचरम्' इत्युक्तः। अतीव अतिमात्रं जनवरामोदा जनवराणां नरश्रेष्ठानां
मोदा आमोदयित्री आङ्पूर्वकान्मोदयतेः पचाद्यच् । यद्वा वरः श्रामोदः प्रीतिर्यस्यास्सा जनेषु वरामोदा निरतिशयप्रीतिरिसर्थः । अथवा वरैः तत्तदभिलषितैर्वरैः आमोदा आमोदयित्री जाननां वरामोदा दामोरा: दाम कुसुममाल्यं उरिस यस्यास्सा