________________
222
अलङ्कारमणिहारे
मितां सदाऽहं याम्। तरसाऽधुनाऽतितरसाधुनाsतितरसा धुनाति साऽघं श्रीः ॥ २३०२ ॥
कलयामि तां सकलया अमितां सः कलया मितां सदा अहं याम् तरसा अधुना अतितरसाधुना अतितरसा धुनाति सा अघं श्रीः॥ इति छेदः। तां प्रसिद्धां सकलया कलया अमितां मितां ज्ञातां सर्वशास्त्रापरिच्छेद्यमहिमतया ज्ञातामित्यर्थः । यां श्रियं स: दासभूतः अहं सदा कलयामि ध्यायामि सा श्रीः अतितरंसा अतितः सातत्येन प्राप्तः रस: कृपारस: यया सा तथोक्ता सती। अतितेत्यत्र 'अत सातत्यगमने' इत्यस्माद्धातोः कर्मणि क्तः। अविश्रान्तकारुण्या सतीत्यर्थः । आतितरश्चासौ साधुश्च अति तरसाधुः तेन महाश्रेष्ठेनेत्यर्थः । अतिशब्दो वृत्तिविषये द्रव्यवचनः तेन 'अव्ययघादाम्बद्रव्यप्रकर्षे' इति अद्रव्यप्रकर्षार्थविहितस्यामोऽत्र न प्रसक्तिः। तरसा वेगेन निरवधिक वेगेनेत्यर्थः । अधुना अद्यैव अधं पाप्मानं धुनाति कम्पयति । उक्तविशेषणविशिष्टां श्रियं ध्यायतो मम सद्य एव पूर्वोत्तराघविनाशाश्लेषौ भवत इति भावः॥ - . दण्डी तु-प्रातिलोम्येन पादाद्यावृत्तौ प्रतिलोमयमकमित्य भाणत् । तथाच तल्लक्षणम्
आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा । यमकप्रतिलोमत्वात्प्रतिलोममिति स्मृतम् ॥ इति । यत्र पूर्वपादस्य प्रतिलोमावृत्त्या उत्तरपादः, पूर्वार्धस्य प्रतिलोमावृत्त्या उत्तरार्ध, एकस्य श्लोकस्य प्रतिलोमावृत्त्या श्लोकान्तरं च निष्पद्यते तत्प्रतिलोमयमकमिति तदर्थः । अयमनुलोमप्रतिलोमचित्रभेद इत्यन्ये । पादभागप्रातिलोम्येऽपदिं दृश्यते । अत्रा