________________
अलङ्कारमणिहारे
यैर्न कृता क्वचिदपि वा सत्कृत्त्या स्युः प्रसेविकाइशौरे । श्वासान्वितास्त एतेऽसत्कृत्यास्स्युः प्रसेविका नूनम् || २२६० ॥
यैर्जनैः क्वचिदपि वा सत्कृतिः आदरः तया सत्कृत्या | 'अनचि च' इति तकारस्य द्वित्वं यमकाविरोधायेति ध्येयम् । प्रसेविकाः प्रकृष्टास्सेवाः 'धात्वर्थनिर्देशे ण्वुल् वक्तव्यः' इति सेवतेः ण्वुल् । धात्वर्थश्च सेवनम् । न कृताः त एते जना श्वासान्विताः श्वसन्त्यः असत्कृत्याः असती स्वर्शाद्यनही या कृत्तिः श्वगर्दभादिचर्म तस्याः प्रसेविकाः भस्त्रिका एव नूनम् । 'भस्त्रा चर्मप्रसेविका' इत्यमरः । भगवत्सेवनविधुराः श्वासमात्रवः चर्मभस्त्रिकाप्राया एव । अत्र 'तरवः किं न जीवन्ति भस्त्रा: किं न श्वसन्ति च' इत्यादिभागवतश्लोकार्थोऽनुसंधेयः । अत्र द्वितीयतुरीययोराद्यभागावृत्तिः ॥
196
यस्तव कथासुंधायां यदुवंशमणे महादृतिर्न स्स्यात् । सम्यक्कृते विमर्शे स नरो नूनं महाहतिर्नस्स्यात् ।। २२६१ ॥
हे यदुवंशमणे ! यः नरः तव कथासुधायां महादृतिः महती आदृतिर्यस्य तथोक्तः । न स्यात् न भवेत् सः नरः सम्यक् विमर्शे कृते नस्स्यादित्यत्र नः स्यात् इति छेदः । नः अस्माकं स नरः महादृतिः महती भस्त्रिकैव स्यात् तत्तुल्यो भवेत् । अस्मद्दृष्ट्या स चर्म भस्त्रिकाप्राय एवं स्यात् न तु चेतन इति भावः । अत्र द्वितीयतुरीयपादयोरन्त्यभागावृत्तिः 'दृतिश्चर्मपुढे मत्स्ये ' इति मेदि - नी । 'हतेः पादादिवोदकम् ' इति प्रयोगश्च ॥