________________
152
अलङ्कारमणिहारे
रेफरहितं सत् कतममिति सिध्यतीत्यर्थान्तरं विच्छित्तिविशेषाय। विषमकाव्यार्थापत्त्यप्रस्तुतप्रशंसानामेकवाचकानुप्रवेशः ॥
यथावा
मरकतकमेत्वमरतामवाक्छिरोऽप्यस्तु तर्हि कतकं सत् । काजलमेव विमलयेदच्युत सन्मानसं न वपुरिव ते ॥ २२१२ ॥
__ हे अच्युत! मरकतं गारुत्मतं अमरतां देवत्वमेव एतु त्वाहिव्यविग्रहसाम्येप्सया देवत्वमेव लभताम् । न केवलमेतावदेव, अवाक्छिरोऽप्यस्तु अधःकृतशीर्षमपि भवत्विति लोकोक्तिः । तर्हि तथाऽपि कतकं कतकफलमेव स्यात् । देवत्वेऽपि स्वाभीष्टानवाप्तेरधश्शीर्ष तप्त्वाऽपि कतकरूपमेव भवेदित्युत्कटानिष्टप्राप्तिरेवोक्ता। तदापि कतकरूपेऽपि काजलं ईषजलमेव प्रसादयेत्। तव वपुरिव दिव्यविग्रह इव सन्मानसं सतां मन एव सन्मानसं अतिगभीरं मानससरः न विमलयेत् यथा मानसमतिगभीरमपि तव दिव्यमङ्गळविग्रहः प्रसादयेत् न तथा मरकतकमुपदरिंशतरीत्या महता यत्नेनापि न प्रसादयेत् । किंतु अत्यल्पकुत्सितजलमेवेति निर्गळितोऽर्थः । अनेन मरकतकस्य सर्वात्मना भगवद्विग्रहसाम्यदवीयस्त्वमुक्तम् । वस्तुतस्तु मरकतकमिति पदं अमरत्वं मकाररेफराहित्यं प्राप्य कतकमित्यवशिष्टं विपर्यासेपि कतकतयैवावास्थितमित्यर्थः । अत्र प्रतापविषमव्यतिरेकाणामेकवाचकानुप्रवेशोऽनुसंधेयः ॥
यथावाजनिसंततिः प्रयाता बबी मुग्धा गता मुधाभा