________________
150
अलङ्कारमणिहारे
तपवादी तावकगुणानां तदनुगादिनां वा निन्दकः भवमये ससाररूपे पारावारे सुखगः महाप्लवो भवितेति चित्रम् । त्वद्गणानुवादी सुखगः गुणानुवादजनितानन्दशाली महाप्लवः भविता महोडुपवदुत्तारको भवितेत्यर्थः । तदपवादो तु भविता असुखग इति छेदः । भवमयपारावारे महान् आप्लव: आप्लवनं यस्य स तथोक्तः नित्यनिमग्न इत्यर्थ । अतएव असुखगः असुखप्राप्ता। यद्वा महान् प्लवः चण्डालः 'चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः' इत्यमरः । भगवद्गणनिन्दनस्य नेदं फलमलमितिः भावः। अतएव असुखगः उक्तोऽर्थः । यद्वा महान् प्लवः मद्गुकारण्डवादिवत्कश्चित्प्लवनामा शोभनः खगः सुखगः स न भवतीत्यसुसगः अशोभनः पक्षी भविता। अत्र रूपककाव्यलिङ्गतुल्ययोगितानामेकवाचकानुप्रवेशः ॥
यथावा
अरविन्दं रविमन्तर्दधतां भवतात्ततस्तथानन्दम्। तदपि भजत्सद्रवितां हरिनयनं स्यात्तवाम्ब न तु नयनम् ॥ २२१० ॥
हे अम्ब! अरविन्दं पद्मं अन्तः मनसि विं भानु दधतां धत्ताम् । 'दध धारणे' इति भोवीादकाद्धातोर्लोट् । त्वन्नयनतावाप्तथै उपास्तामिति भावः । ततः तस्मादुपासनात् तथानन्दं तथा आनन्दो यस्य तत्तथोक्तं । तल्लाभौपयिकहर्षपरिपूर्ण भवतात् भवतु । तदपि तथाऽपि सत् साधु प्रशस्तं वा यथातथा रवितां भानुतां भजत् सेवमानं सत् यथाक्रतुनयेन रविमुपासीनस्य तद्भाव. भाविताया अयश्यंभावः । हरिनयनं एतावताऽपि प्रयासेन भगवन्न