________________
137
सर्वजगत्कारणत्वादिनिबन्धनां सर्वनामवाच्यतां न भजते ख
विति भावः ॥
पक्षे हे देव ! सोऽयं बुद्धिस्थः दक्षिणः दक्षिणशब्दः पूर्वः पूर्वशब्दः उत्तरः उत्तरशब्दः परः परशब्दः अवरः अवरशब्दश्व व्यवस्थितः व्यवास्थां प्राप्तस्स्सन् व्यवस्था च 'स्वाभिधेयापेक्षावधिनियमः' इत्याहुः । यथा सर्वनामताभाक् सर्वनामसंज्ञां प्राप्तः अव्यवस्थितः व्यवस्थामप्राप्तः पूर्वोक्तः दक्षिणादिशब्दः न तथा सर्वनामसंज्ञाभान भवतीत्यर्थः । ' पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्' इति व्यवस्थायामेव तेषां सर्वनामताभाक्त्वस्य व्यवस्थाहेतुकत्वादतथात्वस्याव्यवस्थितताहेतुकत्वाच्च काव्यलिङ्गद्वयं प्रकृताप्रकृतश्लषेणैकवाचकानुप्रविष्टम् ॥
संकरसरः (१२१)
-
यथावा
स्वकरेण तवाङ्घ्रिरुाचें जिहीर्षुरभ्येत्य पुरत एव तया । निर्वासितोऽम्ब धूतो वासरकर एष धूसरकरोऽभूत् ॥ २१९४ ॥
हे अम्ब! एष वासरकरः भानुः स्वकरेण निजेन हस्तेन किरणेन च । तव अङ्घ्रिरुचिं चरणश्रियं न तु पाणिश्रियं जिहीर्षुः अभ्येत्य अभिमुखमागत्य अभ्यमित्रीणो भूत्वेति भावः । तया रुच्या स्त्रियेति भावः । पुरत एव स्वावासाद्गृहादेव नगरादेव वा 'अगारे नगरे पुरम्' इत्यमरः । निर्वासितः प्रसिद्धं हि महापराधिनां निष्कासनम् । अतएव धूतः पुनरपि कीदृशो दण्डस्स्याद्वेति कम्पितस्सन् । यद्वा पुरत एव देहादेव निर्वासितः संहृत इत्यर्थः । धूतः देहान्तरं प्राप्यापि प्राग्भववास
ALANKARA IV.
12