________________
132
अलंकारमणिहारे
गति । परिदृश्यतामनीहक्पर इतरस्सम इतोऽस्ति को नाम ॥ २१८९ ॥
हे नाथ! भवान् सर्वादौ सर्वस्य जगतः आदौ समुल्लसति प्रकाशते । सर्वजगत्कारणभूत इत्यर्थः। अस्मात् एतस्मात् त्वत्तः समुल्लसतीत्यावृत्त्या योजनीयम् । समुल्लसति प्रादुर्भावं प्राप्ते इत्यर्थः । आस्मिन् जगति भुवने अनीदृक् अनेवंविधः त्वमिव न जगत्कारणमित्यर्थः । इतः अस्मात्त्वत्तः परः उत्कृष्टः समस्तुल्यो वा इतरः कोनाम अस्ति? परिदृश्यतां पर्यालोच्यतामित्यर्थः । सर्वजगकारणभूतस्य तव कार्यभूते अस्मिन् ब्रह्मादिस्तम्बपर्यन्ते भुवने ईदृशृजगत्कारणताविधुरः त्वत्कार्यभूतः कोऽन्यस्त्वत्तोऽप्युत्कृष्टस्समो वा स्यादिति भावः । 'न तत्समश्चाभ्यधिकश्च दृश्यते' इति श्रुतेः ॥
अन्यत्र हे नाथ! भवान् भवच्छब्दः सर्वादौ सर्वादिगणे अस्मात् अविद्यमानः असिस्थानिक: स्मादित्यादेशो यस्य स तथोक्तः। अस्मिन् अविद्यमानः ङिस्थानिकः स्मिन्नित्यादेशो यस्य स तथोक्तश्च समुल्लसति । भवच्छब्दस्य सर्वनामगणपठितत्वेऽपि हलन्ततया अदन्तनिमित्तको ‘उसिङ्योः स्मास्मिनौ' इति विहितौ स्मास्मिन्नादेशौ न भवत इति भावः । इतः अस्मिन् सर्वनामगणे सावविभक्ति कस्तसिः। परः परशब्दः इतर: इतरशब्दः समः समशब्दः कः किंशब्दश्च । अनीदृशः भवच्छब्द इव स्मास्मिन्नादेशविधुरो न भवतीत्यर्थः। उक्तानामेतेषां सर्वनामगणपठितानां परादिशब्दानामजन्ततया स्मास्मिन्नादेशयोरवश्यभावादिति भावः । अत्र प्रकृताप्रकृतश्लेषः वर्ण्यस्य भगवत उपमाऽनिष्पत्तिवचनरूपप्रदीपभेदश्चेत्यनयोरेकवाचकानुप्रवेशसंकरः ॥