SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ संकरसरः (१२१) 127 हे श्रियःकान्त ! नीलमणीमौळि: इन्द्रनीलकिरीटः अवरवर्णोऽपि त्वत्तो न्यूनश्यामलिमापि। पक्षे शूद्रोऽपि 'शूद्राश्चावरवर्णाश्च' इत्यमरः। त्वयि विन्यस्तः आत्मन: स्वस्य भरः भारो येन स तथोक्तः त्वया मूर्धा धृतत्वादिति भावः । पक्षे त्वय्यर्पितात्मरक्षाभर इत्यर्थः ॥ अनन्योपायशक्तस्य प्राप्येच्छोरधिकारिता । प्रपत्तौ सर्ववर्णस्य सात्विकत्वादियोगिनः । सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ॥ इत्यादिभिः प्रपत्तेस्सर्वाधिकारिकत्वोक्तेः । त्वत्तः उच्चैः पूर्वापेक्षयाऽभ्यर्हितां । पक्षे ब्रह्मादिलोकापेक्षयाऽप्युत्कर्षशालिनी इतरैः त्वदविधृताभरणान्तरैः दुर्लभां भगवहिव्यविग्रहसुषमानवलाम्बतया लन्धुमशक्यां, अन्यत्र प्रपन्नेतरैर्दुरापां 'प्रपन्नादन्येषां न दिशति मुकुन्दो निजपदम्' इत्याद्युक्तेरिति भावः। श्रियं श्यामलिमरूपां अन्यत्र निश्श्रेयससंपदं विन्दति ॥ __अत्र प्रस्तुते भगवद्धृतेन्द्रनीलमकुटे वर्णनीये विशेषणसाम्यबलादप्रसुतावरवर्णप्रपन्नवृत्तान्तः प्रतीयत इति समासोक्तिः । अवरवर्णस्याप्युश्चश्रियः प्राप्तेः त्वयि विन्यस्तात्मभर इति पदार्थहेतुकत्वात्काव्यलिङ्गम् । प्राक्सिद्धस्य स्वनीलिम्नो भगवदिव्यविग्रहसंनिधिवशेनोत्कर्षवर्णनादनुगुणालङ्कारश्चेत्येतान्येकवाचकानुप्रवेशेन संकीर्यन्ते ॥ यथावा न त्यक्ष्याम्यच्युतमिति शपथस्सततं विशस्सुघटितश्चेत् । अयमेव भवति सुपथो विपथोऽन्यो योहि विघटिता भविता ॥ २१८६ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy