________________
30
अलङ्कारमणिहारे
यथावावित्तं वृत्तमिति द्वे भवदीयैर्वृत्तमेव रक्ष्यमिह । न तु वित्तमैति याति च तदेतयोर्विवृत एव ननु भेदः ॥१४६५॥
नन्विति भगवत आमन्त्रणे । तत् वित्तं पैति आयाति । याति गच्छति च । एतयोः वित्तवृत्तयोः भेदः विवृत एव ।
वृत्तमेव सदा रक्षेद्वित्तमायाति याति च । अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥
इति स्मरद्भिर्मुनिभिर्वैलक्षण्यं व्याख्यातमेवेत्यर्थः । तयोः वित्तवृत्तशब्दयोः विवृत एव वि वृ इाते वर्णाभ्यामेव, सार्वविभक्तिकस्तसिः । भेदः तावदेव वैलक्षण्यं अन्यवर्णतौल्यादित्यर्थोऽपि चमत्कारी । अत्र न तु वित्तमिति व्यावृत्तेश्शाब्दत्वेऽपि उपपादित-. चमत्कारातिशयपोषिततया भवत्येवं परिसंख्यालङ्कारः अत्रोदाहरणे स्मृतिवचनगृहीतवृत्त वित्तशब्दयोः वैपरीत्येन ग्रहणं विकृत एवं भेद इत्युपपादितचमत्कारानुरोधेनेति ध्येयम् ॥
यथावा
शरणागतमेनं मां यदि गमयसि नायकं स्वमथ मधुमथनः। नायकमयमपि परमभिगमयेदव्यास्त्वमेव तत्किं तेन ॥ १४६६ ॥
हे श्रीः! शरणागतं एनं मां स्वं निजं नायकं वल्लभं भगवन्तं गमयसि प्रापयसि यदि अथ अयं मधुमथनोऽपि परं स्वस्मा. दन्यं नायकं नाथं अभिगमयेत् स्वयं न रक्षेत् किंतु विष्टिभारमिवान्यं प्रापयेदिति भावः। संभावनायां लिङ् । तत् तस्मात्