________________
प्रतिषेधसरः (१०२)
337
मित्यमुमर्थ व्यक्तीकरोति । स च निरुपमकरुणाशिशिरा इत्यनेन परिमितशैशिर्यवद्भयस्सुधांशुप्रभृतिभ्यस्तेषां विशेषमुपदर्शयता विशेषणेनाविष्कृतः॥
यथावा
नैतान्यर्जुनरथ्या दुर्दान्तानीन्द्रियाणि मम शौरे । पश्याम नियच्छतानीशो यदि विपथ एव धावन्ति ॥ १९८४ ॥
अर्जुनस्य रथ्याः रथवोढारोऽश्वाः । ईशो यदि समर्थो यदि विपथ एव धावन्ति एतानि इन्द्रियाणि नियच्छ नियभय पश्याम इति योजना । अत्र वक्तुरिन्द्रियाणामर्जुनरथ्याश्वत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तेषां दुर्दान्ततया दुनियमनत्वं व्यनक्ति। तच दुर्दान्तानीत्यादिविशेषणमहिना कवि. नैवाविष्कृतम् ॥
यथावा
न दशाननो न वाली सुदुराधर्षों ममैष दोषगणः । तमनाविध्य त्वमिमं मम नाथ भवेः कथं महाधन्वा ॥ १९८५ ॥
अत्रापि वक्तुर्दोषगणस्य दशाननवाद्यभावः प्रतीत एव परिकीर्त्यमानस्तस्य दुराधर्षतां व्यञ्जयति। सा च सुधुराधर्ष इति विशेषणेन स्वोक्तयैव प्रकाशितः ॥
नन्दसुतेदं न पयो न दधि न मण्डं नचापि ALANKARA—III.
43