________________
उत्तरसरः (८६)
277
हरितः दिश इत्युत्तरम् । कीदृश्यः तत्तनुत्विषः हरिविग्रहरुच इति द्वितीयस्य हरितः हरिद्वर्णा इत्युत्तरम् । नीलहरिद्वर्णयोरभेदः कविसमयसिद्ध इत्यवोचाम वक्ष्यामश्च । ताभिः हरितनुरुचिभिः वृषशैलः कीहक् स्यादिति तृतीयस्य हरितः हरितवर्ण इत्युत्तरम् । 'पालाशो हरितो हरित्' इत्यमरः । कुतः कस्माच निश्श्रेयसं भवेदिति तुरीयस्य हरितः हरेः इति सार्वविभक्तिकतस्यन्तपदेनोत्तरम् ॥
यथावा--
किं वितरति फणिगिरिपतिरङ्ग-द्युतिवैभवेन किं जयति । कं ध्वनयति रिपुर्विजये कंधरया के धुनोति वद शंखम् ॥ १८७५ ॥
किं वितरति फणिगिरिपतिरिति प्रश्नस्य शं सुखं इत्युत्तरम् । अङ्गयुतिवैभवेन किं जयतीत्यस्य खं गगनं इति, कं ध्वनयति रिपुविजये इत्यस्य कंधरया के धुनोतीत्यस्य च शङ्खमिति चोत्तरचतुष्टयं प्रश्नचतुष्टयादभिन्नम । अत्राद्ययोः पदभेदेन अन्त्ययोस्तु तदभेदेनेति पूर्वतो भेदः ॥
पद्यबहिवर्तिनो यथा
फणिशिखरिण को निवसति को धूपो घ्राणतर्पणस्तस्य । किमहारि रहसि हरिणा विद्वन्नुत्तरमिहैकमेव वद ॥१९७६ ॥ ____ अत्र प्रश्नत्रयस्याप्येकमेवोत्तरं श्रीवास इति पद्यबहिर्भूतम् । आद्ये प्रश्ने श्रीवासः श्रीनिवासो भगवानित्यर्थः । द्वितीये श्रीवासः देवदादिनिर्यासविनिष्पादितो धूपविशेष इत्यर्थः। 'श्रीवासो