SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 258 अलंकारमणिहारे जनिर्विशेषोक्तिस्सति पुष्कलकारणे' इति तत्सामान्यलक्षणाक्रान्तत्वात् । तथाऽपि उल्लासतद्गुणप्रतिद्वद्विना विशेषाकारणालंकारान्तरतया परिगणितावित्याहुः ॥ . इत्यलंकारमणिहारे तद्गुणसरोऽशीतितमः. अथानुगुणसरः (१) स्वसजातीयगुणवदन्यसांनिध्यतो यदि । उत्कर्षः पूर्वसिद्धस्य गुणस्यानुगुणं हि तत् ॥ स्वसमानगुणवदन्यसान्निधानात्प्राग्विद्यमानस्वकीयगुणोत्कर्षवर्णनमनुगुणालंकारः। अयं च जयदेवोपक्रमम् ॥ यथावा संसिद्धित इन्दीवरसंसद्धितरुचि ततोऽअनेनाक्तम् । त्रिगुणाजनमिव रमणावलोकने तद्रुचाम्ब तव नयनम् ॥ १८३४ ॥ संसिद्धितः स्वभावतः ‘संसिद्धिप्रकृती समे' इत्यमरः । इन्दीवराणां संसत् सभा समूहः तस्याः हितं तत्सदृशमिति यावत्। अत्र प्रकृत्यैव सिद्धस्य लक्ष्मीनयनश्यामलिनः अञ्जनादिना उत्कर्षः॥ यथावानवपद्मरागकाञ्चीछविमसृणितकनकवसनजनितरुचा। छुरितं तव जगदम्ब स्फुरति वपुर्दिव्यमतिपिशङ्गन्तया ॥ १८३५ ॥ इत्यलंकारमणिहारे अनुगुणसर एकाशीतितमः.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy