________________
246
अलंकारमणिहारे
कविसंप्रदायरत्ने षोडशमरीचौ--'कमलासंपदोः' इत्युपक्रम्य 'नीललोहितयोस्स्वर्णपरागाग्निशिखादिषु' इत्युक्त्वा ‘ऐक्यमेवाभिसंहितम' इत्यन्तेन ॥
यथावा--
नीलायितं निजरुचा व्यालाचलनाथ मौक्तिकाकल्पम् । उरसि तव धवलयन्ती सरसिजनयना स्मितैः क्रियात्कुशलम् ।। १८१७ ॥
उदाहरणद्वयेऽपि पूर्व परित्यक्तस्य स्वगुणस्य पुनः प्राप्तिस्स्पष्टैव ॥ अयमेव तद्गुण इति केचिद्वयवाहार्षुः । तन्न चतुरश्रं, अत्र तद्गुणानवकाशात् । स्वगुणत्यागेनान्यदीयगुणपरिग्रहे हि तस्य प्रवृत्तिः । न चेह तत्संभवः श्रियो मौक्तिकाकल्पस्य च प्रथमं स्वगुणत्यागेनान्यदीयगुणग्रहणसद्भावेऽपि पश्चात् स्वगुणत्यागान्यदीयगुणग्रहणयोरभावात् । अतएव स्वगुणत्यागादिति तद्गुणलक्षणे स्वगुणेत्यत्र समासान्तहितगुणगुणिसंबन्धमात्रमागन्तुकानागन्तुकसाधारणं विवक्षितम् । ततश्च ‘विभिन्नवर्णा गरुडाग्रजेन' इत्यादौ गृहीतस्यारुणवर्णस्यापि स्वगुणतया तत्परित्यागेनान्यदीयगुणस्वीकारसद्भावात्तद्गुण एवेलि निरस्तम् । तथाऽपि स्वकीयस्यैव गुणस्य प्राप्तया अन्यदीयगुणाभावेन तद्गुणस्य दुर्वचत्वात् । किं च अयमेव तद्गुण इत्युक्ते ‘पद्मरागायते नासामोक्तिका तेऽधरत्विषा' इत्यादिप्रसिद्धतद्गुणालंकारोदाहरणेषु तद्गुणालंकारो न स्यात् । न चेष्टापत्तिः, अनुभवसिद्धायाश्चमत्कृते. निरवलम्बनतापत्तोरति दिक् ॥
यत्तु स्याद्विकृतेऽप्यर्थे पूर्वावस्थानुवर्तनम् । पूर्वरूपं तमप्याहुरलंकृतिविशारदाः ॥