________________
उल्लाससरः (७१)
179
धरण्या धरणौ वा भास्वरः तेजस्वी सन् प्रभवेत् प्रभुर्भवेत् निस्स्वः दुर्गतस्सन् धरणिभारः भुवो भारभूत एव भवेत् । न किंचिदपि प्रयोजनं तेन भवेदिति भावः । पक्षे धरीणभास्वरशब्दः निस्स्वः स्ववर्णरहितस्सन् धराणभार इति निष्पन्नो भवेदित्यर्थश्चमत्कारी। अत्र भगवतोऽनुग्रहो गुणः तेन शरीरभृतो धरणिभास्वरप्रभुत्वरूपगुणाधानं पूर्वार्धे । तन्निग्रहो दोषः तेन तस्य निस्स्वतावाप्तिपूर्वकभूभारत्वरूपदोषाधानमुत्तरार्धे इत्युभावपि प्रकारौ दर्शिताविति पूर्वेभ्यो विच्छित्तिवि. शेषः । एवं प्रदर्शयिष्यमाणेष्वप्युदाहरणषु ॥ ___ शर्वस्स्थाणुस्सन्नपि सर्वज्ञस्त्वत्कृपावशादासी. त् । स्यादितरधा स पशुपः पतनधश्शीर्षमपि पशुप एव ॥ १७०८ ॥
अत्र भगत्कृपामहिमगुणेन स्थाणोरपि सर्वज्ञत्वरूपगुणः, तद्वैपरीत्येन दोषेण पशुपस्य पशुपत्वरूपदोषश्वाहित इत्युभयम् ॥
यथावा
कृपया त्वयेक्षितो यदि भवत्यसभ्योऽपि खल सभास्तारः। अत एष सभासारो विपरीतत्वे भवेद्रसाक्षासः ॥ १७०९ ॥
हे भगवन् ! त्वया कृपयां ईक्षितः दृष्टो यदि असभ्योऽपि सभानहः अनार्योऽपि 'माहाकुलकुलीनार्यसभ्यसजनसाधवः ' इत्यमरः । सभास्तारः सभ्यो भवति खलु । अतः अस्मादेव कारणात् एषः सभासारः भवतीत्यनुषज्यते । सभायां श्रेष्ठो