SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अलङ्कारमणिहारे यथावा अज्ञाद्ब्रून्धी श्रेयांस्तस्मात्तद्धारणे कृती तस्मात् । ज्ञानी तस्माद्व्यवसितमतिस्ततोऽप्यच्युत स्वरू पज्ञः ।। १४१५ ॥ तद्धारणे कृती ग्रन्थधारणं कृतवानित्यर्थः । कृतशब्दात् 'इष्टादिभ्यश्च' इति कर्तरि इनिः । ' तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम्' इति कर्मणस्तद्धारण शब्दात्सप्तमी । ग्रन्थिनः ग्रन्थाध्ययनकृतः । अनयोरुदाहरणयोः मनुजप्रभृतीनां ग्रन्थिप्रभृतीनां च श्रैष्ठयरूपधर्ममुखेनोत्तरोत्तरोत्कर्षः । अनयोश्चाद्य उदाहरणे - भूतानां प्राणिनरश्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नरश्रेष्ठा नरेषु ब्राह्मणास्स्मृताः ॥ इत्यादिमनुवचनच्छाया पुरस्कृता । द्वितीये तु - अज्ञेभ्यो ग्रन्थिनरश्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनःश्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ इति मनुवचनक्रम उक्त इति ध्येयम् । अयं सर्वोऽपि श्लाध्यधर्मोत्कर्षः ॥ अश्लाध्यधर्मोत्कर्षो यथा मलिनो महिषस्तस्माइलिभुक्तस्माच्च तिमिरनिकुरुम्बम् । मम हृदयं तस्मादपि विमलयसि यदीदमीश्वरोऽसि त्वम् ॥ १४१६ ॥ उभयरूपो यथा— अवनितलं विपुलतमं गगनं तस्मात्ततोऽपि
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy