________________
106
अलङ्कारमणिहारे
यत्व यस्य रमां दयिततमां तनयं प्रतिलोम तत्पदार्थे चेत्युभौ
हेतुतया निबद्धौ ||
क्वचित्परस्परविरुद्धयोर्द्वयोः क्रमादुमौ हेतुभावमश्नवाते ।
यथावा
श्रुतनाक्रान्तद्विपदीननिनादो हरे भवानथ च । प्रविमृष्टतदैकान्त्यः खेदं मोदं च युगपदगात् ।। १५९० ॥
हरे ! इति संबोधनं गजेन्द्रमोक्षार्थगृहीतावतारत्वज्ञापनाय । ऐकान्त्यं भगवत्येकस्मिन्नेव अन्तः शरण्यत्वेन निश्चयो यस्य स एकान्तः तस्य भावः ऐकान्त्यं, एक श्वासावन्तश्च एकान्तः सोऽस्यास्तीत्येकान्ती तस्य भाव इति वा । तत् प्रविमृष्टं सम्यग्विचारितं येन स तथोक्तः । अत्र भगवतः युगपत्खेदमोदयोः परस्परविरुद्धयोः क्रमात् नक्राक्रान्तगजेन्द्रार्तनिनादश्रवणं तदीयैकान्त्यविमर्शनं चेत्युभौ पदार्थों हेतुतया निबद्धौ ॥
क्वचित्परस्परविरुद्धयोरुभयोस्समर्थनीययोरेक एव हेतुः ।
यथावा
आकाङ्क्षितावलोकं लोकाधीशं चिराद्विलोकितवान् । निर्वेदं खर्वेतरमविन्दमप्यहममन्दमानन्दम् ।। १५९१ ॥
अपेक्षितदर्शनं सर्वलोकेश्वरं श्रीनिवासं चिराय पश्यतो मम इयन्तमपि समयं वृथैव ईदृशदिव्यमङ्गळविग्रहनिर्वर्णनं नाघटतेति