________________
काव्यालङ्गसरः (६२)
103
भगवान् बहुप्रसादस्सन् विनताय विपुलां संपदं वितरति । नित्यश्रीः अयं रसान्वितः अनुग्रहान्वितश्चेत् कथमिव बहुप्रदो न स्यात् श्रीसमृद्धिमत्त्वे अनुग्रहशालित्वे च विनताय बहुप्रदानं नाश्चर्यमिति भावः । पक्षे बहुप्रसादशब्दः नित्यश्रीः असान्वित इति छेदः । असान्वितः सा इत्याकारकवर्णहीनश्चेत् बहुप्रद इत्येव श्रूयत इत्यर्थः । अत्र विनतोद्देश्यकविपुलसंपत्प्रदानरूपवाक्यार्थों बहुप्रसाद इति पदार्थेन ननुकथमिवेत्युत्तरवाक्याथेन च समर्थ्यत इति विशेषः । उत्तरवाक्यार्थेऽपि नित्यश्रीः रसान्वित इति पदार्थाभ्यां बहुप्रदत्वं समर्थ्यत इत्यपरोऽपि विशेषः । चमत्कृतिविशेषस्तु स्फुट एव ॥
कचित्समर्थनीयार्थसमथनार्थे वाक्यार्थे पदार्थों हेतुः। यथा
विषयचलः प्रागधुना त्वद्गुणविवशस्तवेश न स्मर्ता । आनन्दनिमनोऽग्रेऽप्यागस्करणं त्रिरस्य सद्यमिदम् ॥ १५८६ ॥
अत्र त्रिरागस्करणं समर्थनीयम् , अस्फुटहेतुकत्वात् । तत्समर्थनं च भगवद्विस्मरणरूपैर्वाक्याथर्निबद्धम् । तत्र प्रतिवाक्यार्थ विषयचलत्वादयस्त्रयो हेतवः पदार्थरूपाः । तवेत्यत्र ‘अधीगर्थ' इत्यादिना षष्ठी । न स्मर्तेत्यत्र अयमिति अहमिति वा सह्यमित्यत्र त्वयति चाध्याहारः॥
यथावाप्राह्लादिमबधास्त्वं मुग्धोऽतितराममूमुचः क