SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । तुभ्यं कङ्कतिके! नमोऽस्तु, धिगतिखेहामिति व्याजवाविन्यासा चिकुर प्रसाधनविधौ कृष्णेन सा सखजे ॥ ६ अत्र विपक्षरमणीं प्रति काठिन्यादिदोषप्रसज्जनेन प्रागल्मयातिशयप्रकटनेन वाऽसूया | आत्मानं प्रति स्नेहमयत्वगुणा रोपेण स्वाधिक सन्ताप -- प्रकटनेन दैन्यम् | काठिन्यस्नेहयोर्गुणदोषत्वारोपेणात्यन्ततिरस्कृतवाच्यध्वनित्वम् । कङ्क्षतिकां प्रति विपचरमोत्वारोपेण समामोक्तिः । 'तुभ्य' नमो' S'तिस्निग्धां धिगिति हासनिर्वेदयोः शाबल्यं - इत्येवं भूयसाऽपि लक्षणेनोत्तमोत्तममपि काव्यं 'व्याजवाग्विन्यासे' त्यो कस्येव पदस्य वाच्यस्य पोषकत्वादुत्तमोत्तमत्वं विहाय केवलगुणीभूतव्यङ्ग्यत्वेनोत्तमं जातं, किन्तु 'धिगतिहामितोषस्मितं जल्पन्ती चिकुर प्रसाधनविधा' वित्यादि चेत्तदाऽस्योत्तमोत्तमत्वमेव (ङ) । ११० मानानन्तरं सङ्कीर्णसम्भुक्ता पश्चात् स्वाधीनभर्तृका काचिन्नायिका श्रीकृष्णास्य केशप्रसाधनङ्घर्वती कङ्कतिकां लक्ष्यीकृत्य व्याजेन तामाह- काठिन्यमिति । हे कवतिके ! काठिन्यं गुण एव येन काठिन्येन हेतुना भवती श्रीकृष्ण केशयहं लभते । स्न ेहस्ते दूषणमेव येन तैलरूपेण देपी दोपसम्बन्धिनी दशा वर्त्तिका दग्धतां लभते । इति व्याजेन कङ्कतिकामिषेण विपश्चरमण्या दोषयञ्जकस्य वश्वलो विन्यासो यस्याः सा । •वाविन्यासं त्वा प्रसन्नेन श्रीकृष्णेन सस्वजे तया महालिङ्गनचक्र इत्यर्थः । प्रागल्भोतिकेशाकर्षणरूप प्रागल्मयातिशयप्रकटनेनेत्यर्थः । गुणदोषत्वेति- काठिन्य ं गुण इत्यन गुणशब्दस्य दोघे लक्षणा, काठिन्यस्य निन्दात्वं ध्वनि - एवं स्र होत्तर 'दोष' ('दूषण' ? )शब्दस्यापि गुणे लक्षणा, स्रोहस्य सर्वोत्कर्षो ध्वनिः । ध्वनेस्वत्रन्ततिरस्कृतवाच्यत्वं ज्ञेयस् । नायिकात्वारोप एव समासोकालङ्कारः । गुरुकगोचरत्वमेव नायिकाया ग्रभिमतं तथा वदोषचालनार्थं प्रयासः कृतः, अपराधलवोऽपि तस्याः कथङ्कारं भवतीति कै सुतिकन्यायेनाभिधानस् । (ङ) 'व्यानवाखिन्य से'त्येकस्यैव परस्येति - 'स्यादपुः सुन्दरमपि श्विले क्रेन दुर्भग' मिति रीत्या ध्वनिकायसाधनान्तरायो घटिनः । एवं 'अनम्याने भ्रान्तं कनक म्टगणाऽन्धितधियेत्यादि भट्टवाचस्पतिभिश्रकृतपद्ये 'मयाऽप्तं रामत्वमित्येकस्मादेव वाक्यप्रयोगाद्दनित्वं वाहतम् - तत्र तावदपराङ्गतया बाधा, व्यत्र तु वाच्यप्रपोषकत्वमुखेन । मूलाइते पो उत्तमोत्तमत्वं ध्वनेर्ध्वन्यन्तरोदुगारतः सम्भवि, तञ्च न भूतमिति फलितमाह - उत्तमं जातमिति
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy