________________
३४ ]
वृत्तमौक्तिक
आदि- गोपीपीनपयोधरद्वयमिलच्चेलाञ्चलाकर्षण
वेलिव्यापृतचारुचञ्चलकराम्भोज व्रजत्कानने । द्राक्षामञ्जुलमाधुरीपरिणमद्वाविभ्रमं तन्मना
गद्वैतं समुपास्महे यदुकुलालम्ब विचित्रं महः ॥१॥ लम्बोदरमवलम्बे स्तम्बेरमवदनमेकदन्तवरम् । अम्बेक्षितमुखकमलं यं वेदो नापि तत्त्वतो वेद ॥२॥ गङ्गाशीतपयोभयादिव मिलद् भालाक्षिकीलादिव, ___व्यालक्ष्वेलजफूत्कृतादिव सदा लक्ष्म्यापवादादिव । स्त्रीशापादिव कण्ठकालिमकुहूसान्निध्ययोगादिव,
श्रीकण्ठस्य कृशः करोतु कुशलं शीतद्युतिः श्रीमताम् ॥३॥ विहितदयां मन्देष्वपि दत्त्वानन्देन वाङ्मयं देहम् । शब्देऽर्थे सन्देहव्ययाय वन्दे चिरं गिरं देवीम् ॥४॥ भट्टश्रीरामचन्द्रः कविविबुधकुले लब्धदेहः श्रुतो यः,
श्रीमान्नारायणाख्यः कविमुकुटमणिस्तत्तनूजोऽजनिष्ट । तत्पुत्रो रायभट्टः सकलकविकुलख्यातकीत्तिस्तदीयो,
__ लक्ष्मीनाथस्तनूजो रचयति रुचिरं पिङ्गलार्थप्रदीपम् ॥५॥ श्रीरायभट्टतनयो लक्ष्मीनाथः समुल्लसत्प्रतिभः ।
प्रायः पिङ्गलसूत्रे तनुते भाष्यं विशालमतिः ।।६।। जलोकसां तुल्यतमैः खलैः किं रम्येपि दोषग्रहणस्वभावैः । सतां परानन्दनमन्दिराणां चमत्कृति मत्कृतिरातनोतु ॥७॥
यन्न सूर्येण संभिन्नं नापि रत्नेन भास्वता। तत्पिङ्गलप्रदीपेन नाश्यतामान्तरं तमः ।।८।। यद्यस्ति कौतुकं वश्छन्दःसन्दर्भविज्ञाने ।
सन्तः पिङ्गलदीपं लक्ष्मीनाथेन दीपितं पठत ॥६॥ किञ्च मत्कृतिरियं चमत्कृतिं चेन्न चेतसि सतां विधास्यति ।
भारती व्रजतु भारतीव्रया लज्जया परमसौ रसातलम् ॥१०॥ अन्त- इत्यादि गद्यकाव्येषु मया किञ्चित्प्रदर्शितम् ।
विशेषस्तत्र तत्रापि नोक्तो विस्तरशङ्कया ॥१।। मन्दः कथं ज्ञास्यसि सत्पदार्थमित्याकलय्याशु मया प्रदीप्तम् । छन्दःप्रदीपं कवयो विलोक्य छन्दः समस्तं स्वयमेव वित्त ॥२॥