________________
षष्टं वैतालीय-प्रकरणम्
यथा
१. अय वैतालीयम् विषमे रससंख्यकाः कलाः, समकेऽष्टौ न कलाः पृथक्कृताः । न समात्र पराश्रया कला, वैतालीयेन्त्ये र-दण्ड-गाः ॥ १॥ विषमे रसमात्राः स्युः समे चाष्टौ कलास्तथा। वैतालीयं भवेद् वृत्तं' तयोरन्ते रलौ गुरुः ।। २॥ तव तन्वि ! कटाक्षवीक्षितैः, प्रचरद्भिः श्रवणान्तगोचरैः । विशिखैरिव तीक्ष्णकोटिभिः, प्रहतः प्राणिति दुष्करं नरः ॥ ३॥
अस्य च भूयांसि सप्रपञ्चमुदाहरणप्रत्युदाहरणानि पिङ्गलवृत्तौ सन्ति, तानि तत एवावधेयानि । [नैषधकाव्ये च द्वितीये सर्गे सन्ति तानि तत एवावधेयानि] '
इति वैतालीयम् १.
२. अथ औपच्छन्दसकम् तत्रैवान्तेऽधिके गुरौ स्या-दौपच्छन्दसकं कवीन्द्रहृद्यम् ।
फणिभाषितमुत्तमं रसालं, पठनीयं कविपण्डितैरुदारैः ॥ ४ ॥ यथा
परमर्मनिरीक्षणानुरक्त, स्वयमत्यन्तनिगूढचित्तवृत्तिम् । अनवस्थितमर्थलुब्धमाराद्, विपरीतं विजहीहि मित्रमेवम् ॥ ५ ॥
इति प्रौपच्छन्दसकं वैतालीयम् २.
३. अथ प्रापालिका आपातलिका कथितेयं, भाद् गुरुकावथ पूर्ववदन्यत् ॥ ६ ॥ स्थापिङ्गलकेशी कपिलाक्षी, वाचा या विकटोन्नतदन्ती । आपातलिका पुनरेषा, नृपतिकुलेऽपि न भाग्यमुपैति ॥ ७ ॥
इति पापातलिका .
४. अथ नलिनम् विषमपदैः स्यान्नलिनाख्यम् ॥ ८ ॥
१. क. वृत्ते । २. कोष्ठगतोंशोः नास्ति क. प्रतो।