________________
प०५३ -६१
२. षट्पद - प्रकरणम्
. १०. षट्पदम् षट्पदवृत्तं कलय सरसकविपिङ्गलभणितं , एकादश इह विरतिरथ च दहनैविधुगणितम् । षट्कलमादौ तदनु चतुस्तुरगं परिसंतनु ,
शेषे द्विकलं रचय चतुष्पदमेवं संचिनु । उल्लालद्वयमत्र हि भवेदष्टाविंशतिकलयुतम् । यदि पञ्चदशे विरतिस्थितं पठनादपि गुणिगणहितम् ॥ ५३ ।। दहनगणनियमविरहितकाव्यं सोल्लालचरणयुगलेन । कथयति पिङ्गलनागः षट्पदवृत्तं मनोहारि ।। ५४ ।।
यथा
जय जय नन्दकुमार मारसुन्दर वरलोचन , लोचनजितनवकंज कञ्जनिभशय भवमोचन । नूतनजलधरनील शीलभूषित गतदूषण ,
दूषणहर धृतभाल भालभूषितवरभूषण ।। दूषणगणमिह' मम निखिलमपि कुरु दूरे नन्दकिशोर । तव चरणकमलयुगलमनुदिनमनुसेवे नयनचकोर ।। ५५ ।।
षट्पदवृत्तस्यैकसप्ततिर्भेदाः वेदयुग्मगुरून् काव्यादुल्लालाद् रसपक्षकान् । प्रादाय तस्य स्थाने तु लघुद्वयनिवेशतः ।। ५६ ।। भेदाः स्युर्भूमिमुनिभिर्गृहीत्वान्त्यं तु सर्वलम् । आद्यस्तु रविलो बिन्दुमु निगः सोऽजयः स्मृतः ।। ५७ ।। विजय-बलि-कर्ण-वीरा वैताल-बृहन्नरो मर्कः । हरि-हर-विधीन्दु-चन्दन-शुभङ्कराः श्वा च सिंहश्च ।। ५८ ।। शार्दूल-कूर्म-कोकिल-खर-कुञ्जर-मदन-मत्स्य-तालाङ्काः । शेषः सारङ्गोऽपि च पयोधरः कुन्द-कमले च ।। ५६ ।। वारण-जङ्गम-शरभास्तथा धुतीष्टोऽपि दाता च । शर-सुशर-समर-सारस-शारद-मद-मदकरा मेरुः ॥ ६० ॥ सिद्धिर्बुद्धिः करतल-कमलाकर-धवल-मानस-ध्रुवकाः । कनकं कृष्णो रञ्जन-मेघकर-ग्रीष्म-गरुड-शशि-सूर्याः ॥ ६१ ।।
१. ग. दूषणमिह । २. ग. निवेशितः ।