________________
३. प्राकृतसारः।
रसचा परोरपरक्क । पगुणपरमज्झगा गुरू ॥ पुन्वतइअगदुछा सगुरू । जइ णंदिणी णिहणअम्मि उग्गआ ॥ १ ॥ [षट् चतुर्मात्राः पर-उदर-पर-वक्राः । प्रगुण-पर-मध्य-गाः गुरुः ।
पूर्वतृतीयगौ द्वौ षण्मात्रौ सगुरू । यदि नन्दिनी निधने उद्गता ॥ १ ॥] उग्गआ अब्भुअस्स [उद्वता अद्भुतस्य] ।
भुवणाहिवं विमलतेअ-। मतणुअमणुत्तमं विहुँ ॥ मुक्कसअलपसुपासमलं । परमं पुराणपुरिसं णमं सिवं ॥१.१॥ [भुवनाधिपं विमलतेजसं । अतनुकमनुत्तमं विभुम् । मुक्तसकलपशुपाशमलं । परमं पुराणपुरुषं नमामि शिवम् ॥ १.१ ॥]
तइअक्खरं सह परेण । तइअचरणम्मि जुज्जए । तं भणंति किर सोरहअं। समदु(मु)ग्गआइ जइ सेसलक्खणं ॥२॥ [तृतीयाक्षरं सह परेण । तृतीयचरणे युज्यते ।
तद्भणन्ति किल सौरभकं । सममुद्गतया यदि शेषलक्षणम् ॥ २ ॥] सोरहअं इसहलस्स [सौरभकं विषधरस्य]।
छणचंदबिंबसरिसेण । समहुर[स]संगगंधिणा ॥ कोमलेण कमलेण व तं । अहिलं विहासि वअणेण मुद्धिए ॥२.१॥] क्षिणचन्द्रबिम्बसदृशेन । समधुरससंगगन्धिना । कोमलेन कमलेनेव त्वं । अधिकं विभासि वदनेन मुग्धिके ।। २.१ ॥]
जइ उग्गआइ पमुहमि । तइअचरणस्स छलहू ॥ सअलणिउणजणसंगहिअं । इणमो मुणेह ललिअस्स लक्खणं ॥ ३ ॥ [यद्युद्गतायाः प्रमुखे । तृतीयचरणस्य षट् लघवः ॥
सकलनिपुणजनसंगृहीतं । एतज्जानीहि ललितस्य लक्षणम् ॥ ३ ॥] ललिअं कलाणुराअस्स [ललितं कलानुरागस्य] ।
अरविंदसंदमअरंद-। भमिरभमरंधआरिअं॥ विमलबहलसलिलग्घविरं । कमलाअरं विसइ वारणाहिरो(वो) ॥३.१॥ [अरविन्द्रसान्द्रमकरन्द । भ्रमणशीलभ्रमरान्धकारितम् ॥ विमलबहलसलिलपूर्ण । कमलाकरं विशति वारणाधिषः ।। ३.१ ॥]